अद्वैतवेदान्ते गौडपादाचार्याणाम् अजातिवादः — एकः निबन्धात्मकविमर्शः
Dr. Anju J
Assistant Professor
Department of Sanskrit
Sreenarayanaguru Open University
Kollam, Kureepuzha, Kerala, India
Email: anjujayasree1993@gmail.com
Abstract: अद्वैतवेदान्तपरम्परायां गौडपादाचार्यस्य योगदानं विशेषगौरवपूर्णम्। माण्डूक्योपनिषदाधारिताः तस्य कारिकाः अद्वैतदर्शने प्राचीनतमं व्यवस्थितस्वरूपं प्रकटयन्ति1। विशेषतया “अजातिवादः” इति तेन प्रतिपादितं तत्त्वम् अद्वैतवादस्य हृदयस्थम्, यतः अयं सिद्धान्तः जगतः परमार्थतः अनुत्पन्नत्वं प्रतिपादयति2। अजातिवादस्य मूलसिद्धान्तः अयं यत् जगत् न कदापि वास्तविकतया जायते, न नश्यति, न विक्रियते3, किन्तु सर्वं नाम अनाद्यविद्यामूलया मायया कल्पितमेव।
गौडपादाचार्यस्य “न निरोधो न चोत्पत्तिः” इति प्रसिद्धं वचनं4 तत्त्वतः एतदेव बोधयति यत् जन्मनाशौ परमार्थतः नास्ति, केवलं व्यवहारदृष्ट्या तौ अवभासेते। स्वप्ने दृश्यते जगत् यथा जाग्रद्भूमेः वास्तविकत्वं न प्राप्नोति, तथैव जाग्रत्संसारोऽपि परमार्थतः कल्पितमात्रम् इति तुलना सशक्तं प्रमाणम्। बौद्धदर्शनस्य विज्ञानवादेन सह अजातिवादस्य किञ्चन साम्यं दृश्यते, किन्तु अद्वैतदृष्ट्या ब्रह्मणः नित्यसत्यतत्त्वं न परित्यज्यते। जगतः विज्ञानमात्रतया अवभासमानत्वे साम्यं दृश्यते, परन्तु बौद्धानां क्षणिकवादः अद्वैतस्य नित्यब्रह्मवादात् भिन्नः।
आधुनिकवैज्ञानिकदृष्ट्या अपि अजातिवादः रोचकं सम्बन्धं वहति। क्वण्टम्-भौतिकशास्त्रे पदार्थः निरीक्षणाधीनः इति दृष्टिः अद्वैतदर्शनेन प्रतिपादितस्य अनुभवरूपजगतः समीपं गच्छति। एवम् अजातिवादः केवलं प्राचीनदर्शनम् न, अपि तु आधुनिकचिन्तनानां प्रकाशे पुनर्मूल्यायमानः तत्त्वज्ञानस्य आधारभूततत्त्वम् इति निष्कर्षः निष्पद्यते।
Keywords: अद्वैतवेदान्तः, गौडपादाचार्यः, अजातिवादः, स्वप्नदृष्टान्तः, अलातशान्तिदृष्टान्तः, अविद्या, मोक्षमार्गः।