By prakashanjayanti@gmail.com / January 12, 2026 कोशालानन्दमहाकाव्ये पञ्चार्थप्रकृतीनां विचारः Ananga Udaya BhoiResearch ScholarDepartment of Vaidic Darshan, S.V.D.VBanaras Hindu University, Varanasi, Uttar Pradesh, India.Email: anangaudaya94@gmail.com Abstract: “संस्कृतवाङ्मये महाकाव्यानां स्थानं विशिष्टं गौरवपूर्णं च निःसन्देहमस्ति। अत्र निरूपितः कथाविन्यासः केवलं रसालङ्कारछन्दसौन्दर्यैरेव नालङ्कृतः, अपि तु तत्र अन्तर्निहितसांस्कृतिकनैतिकदार्शनिक-गूढार्थबोधेन तस्य महत्त्वं पुनरपि वर्धते। अयं गूढार्थबोधः न केवलं काव्यरसस्य गहनमास्वादनं करोति, किन्तु श्रोतापाठकयोः उभयोः अन्तःकरणे मूल्यबोधं धर्मचिन्तनं जीवनदृष्टेः च परिष्कारं साधयति। अत एव महाकाव्यपरम्परा भारतीयसाहित्यप्रवाहे न केवलं कलात्मकाभिव्यक्तेः साधनं , अपि तु सांस्कृतिकसंस्कारस्य तत्त्वबोधस्य च सेतुरिति परिगण्यते। कोशालानन्दमहाकाव्यं तादृशेषु ग्रन्थेषु प्रमुखं गण्यते, यत्र इतिहासस्य, काव्यसौन्दर्यस्य च सम्यक् समन्वयो विद्यते। संस्कृतसाहित्यशास्त्रे पञ्चार्थप्रकृतयः -बीजं-बिन्दु-पताका-प्रकरी-कार्यमिति प्रतिपादिताः सन्ति। एतानि तत्त्वानि वृत्तान्तसंरचनायाः मेरुदण्डरूपेण स्थितानि यानि कोशालानन्दमहाकाव्येऽपि स्पष्टमवलोकयितुं शक्यन्ते। महाकाव्यरचनाविन्यासे कथायाः ओजस्विता, गूढार्थबोधः तथा साहित्यिकमाधुर्यं सुस्पष्टं दृश्यते। यत्र इतिहासमूलकप्रसङ्गाः अपि काव्यरमणीयतया विराजन्ते, तत्र अस्य महाकाव्यस्य साहित्यशास्त्रीयमहत्वं विशेषतया प्रकाशते। अतः अस्य ग्रन्थस्याध्ययनं न केवलं काव्यसौन्दर्यपरिज्ञानाय अपि तु अर्थगाम्भीर्यस्य अनुसन्धानाय अत्यावश्यकं वर्तते। कोशालानन्दमहाकाव्यस्य समीक्षणेन ज्ञायते यत् पञ्चार्थप्रकृतयः न केवलं कथाविन्याससंरचनायाः आधारभूततत्त्वम् अपि तु सम्पूर्णकाव्यशास्त्रस्यात्मा अपि वर्तते। अयं लघुलेखसारस्य,विस्तृतविवेचनं अधः प्रदास्यते।Keywords: कोशालानन्दमहाकाव्यं, साहित्यदर्पणं, बीजं, बिन्दुः, पताका, प्रकरी, कार्यम्।