प्राचीनभारतवर्षे शिक्षासंस्थानानि : विशेषसन्दर्भे वैदिककालः
Dr. Sanatan Das
Assistant Professor
Department of Sanskrit
Bhatter College, Dantan (Autonomous)
Dantan, Paschim Medinipur, West Bengal, India
Email: dassanatan147@gmail.com
Abstract: “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥” इति विष्णुपुराणवचनमद्यापि भारतवर्षस्य प्राचीनत्वमैतिह्यमयत्वमैतिहासिकप्रामाणिकत्वं तथा भौगोलिकवैचित्र्यं प्रतिपादयन्विद्वांसः सततमनुरञ्जयति। काले काले वैदेशिकैः साम्राज्यवादिभिः लुन्ठकैश्चेयं देवभूमिः भारतवर्षमाक्रान्तमपि तस्य भौगोलिक-सांस्कृतिकवैचित्र्यं तद्गौरवञ्चानुमात्रं नाक्षुन्नं जातम्। तथापि सर्वं कालाधीनत्वादेतद्देशस्यापि ऐतिहासिकः कोऽपि कालखण्डः कालक्रमश्च वैविध्यमयो दृश्यते। तत्र शासनव्यवस्थादिबहुविधेभ्यः कारणेभ्यः देशस्य शिक्षासंस्कृतिवैचित्र्यमपि काले काले वहुधा विभाजितम्। भारतवर्षस्य शिक्षाव्यवस्थाः शिक्षासंस्थानानि शिक्षणोपकरणानि अपि क्रमेण परिवर्तितानि। अद्यत्वे याः शिक्षाव्यवस्थाः यानि च शिक्षासंस्थानानि शिक्षणोपकरणानि वर्तन्ते प्रागाङ्ग्लशासनयुगे तादृशानि नासन्। अतः परिवर्तमानस्य देशस्यास्य कालखण्डाः विविधाः। अनेनैव क्रमेण वैदिकवाङ्गयस्य रचनाकालो वैदिककालः, बुद्धजन्मन आरभ्य प्राग्यवनशासनं यावत् बौद्धकालः इति, ततः यवनशासकानां कालो यवनकालः इति, तत्पश्चात् क्रमेण आङ्ग्लकालः स्वातन्त्र्योत्तरकालश्चेति कथ्यते।
भारतीयशिक्षापद्धतिः विश्वस्य प्राचीनतमासु शिक्षाव्यवस्थासु प्रसिद्धासीत्। अस्याः शिक्षापद्धत्याः मूलं वेदाः, उपनिषदः, गुरुकुलव्यवस्था च भवन्ति। अस्मिन् शोधपत्रे प्राचीनभारते वैदिककाले प्रतिष्ठितानि गुरुकुलपरिषदादिशिक्षासंस्थानानि प्रोस्तोष्यन्ते। भारतीयसंस्कृतेः मूलाधारं शिक्षया एव प्रतिष्ठितम्। प्राचीनकाले वैदिकज्ञानपरम्परा गुरुकुलकेन्द्रितशिक्षापद्धत्या, आचार्यशिष्यसम्बन्धेन च विकसिताभूत्। तत्र नैमिषारण्यम्, तक्षशिला, नालन्दा, विक्रमशिलादिशिक्षापीठाः न केवलं भारतस्य अपितु विश्वस्यापि प्रमुखानि विद्याकेन्द्राणि आसन्। नाममात्रेण एतेषां वैदिककालिकशिक्षासंस्थानानां स्वरूपमत्र यथामति उपस्थाप्यते।
Keywords: वेदाः, उपनिषदः, गुरुकुलम्, ऋषिः, ब्रह्मोद्यः, अग्रहारः, पारिषदः, विश्वविद्यालयः।