By prakashanjayanti@gmail.com / January 12, 2026 व्याकरणशास्त्रे अव्ययस्वरूपं प्रयोगञ्च Rahul DanResearch Scholar, Bankura UniversityBankura, West Bengal, IndiaEmail: rahuldankht@gmail.com Abstract: अस्मिन् शोधप्रबन्धे व्याकरणशास्त्रे अव्ययानां स्वरूपं, भेदाः, प्रयोगश्च विस्तरेण आलोचिताः। व्याकरणदृष्ट्या अव्ययानि तानि पदानि सन्ति, येषां रूपं त्रिषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु च न परिवर्तते। महर्षिपाणिनेः अष्टाध्यायी-सूत्रानुसारं “स्वरादिनिपातमव्ययम्” इति सूत्रेण अव्ययसंज्ञा विधीयते। प्रबन्धेऽस्मिन् मौलिकाव्ययानि, कृत्तद्धितप्रत्ययान्ताव्ययानि, समासनिष्पन्नाव्ययानि (अव्ययीभावः), विभक्तिप्रतिरूपकाव्ययानि च सोदाहरणं व्याख्यातानि। अव्ययपदानि वाक्ये क्रियाविशेषणरूपेण वा विशेषणरूपेण प्रयुज्यन्ते, यद्यपि एतेषां विभक्तिलोपो भवति, तथापि पदत्वसिद्धये सुप्-प्रत्ययानां विधानं कल्प्यते। अपि च, विविधानां अव्ययानां योगे द्वितीया-तृतीयादि-विभक्तीनां नियमबद्धः प्रयोगः अपि अत्र प्रदर्शितः। निष्कर्षतः, अव्ययानां प्रयोगः संस्कृतवाक्यरचनायां सौन्दर्यम्, स्पष्टतां, प्रवाहञ्च आनयति। शोधच्छात्राणां कृते अयं प्रबन्धः अव्यय-प्रयोगात्मक-ज्ञानाय अतीव उपयुक्तः वर्तते।Keywords: अव्ययम्, व्याकरणशास्त्रम्, स्वरादिनिपातः, अव्ययीभावः, पदप्रयोगः।