श्रीहरिनामामृतव्याकरणम् : व्याकरणज्ञानपुरःसरमिष्टोपासना
Śrīharināmāmṛtavyākaraṇam :  vyākaraṇajñānapuraḥsaramiṣṭopāsanā

Author(s): Chiranjit Kole
Assistant Professor, Dept. of Sanskrits
Ananda Chandra College
Jalpaiguri, West Bengal, India
Email: kole.chiranjit@gmail.com
Page no: 42-56 

Abstract: क्रैस्तीयषोडशशतकस्य महाप्रभुश्रीगौराङ्गप्रतिष्ठितवैष्णवसम्प्रदायस्य श्रीजीवगोस्वामिप्रणीतं श्रीहरिनामामृतव्याकरणं ग्रन्थमणित्वं भजते। अयं व्याकरणग्रन्थः कृष्णभक्तिरसामृताभिसेचनस्य निदर्शनमावहति। इदं व्याकरणं न केवलं संस्कृतभाषायाः व्याकरणमपि तु वैष्णवानां वैष्णवेतरेषाञ्च वा कृते आध्यात्मिकमार्गप्रदर्शकम्, यत्र हरिनाममयेन सूत्रपाठेन इष्टलाभस्य सोपानमुन्मोचितमस्ति। पाणिनीयव्याकरणं कलापव्याकरणञ्चांशिकरूपेणा-नुसृत्य इदं श्रीहरिनामामृतव्याकरणं विरचितम्। इह पाणिनीयप्रत्याहाराः अगृहीताः, किन्तु कलापव्याकरणस्य सिद्धवर्णपाठः हरिनामसम्बलितसूत्रसमूहेषु अनुसृतः। पाणिनीयव्याकरणादिषु आरभ्य क्रैस्तीयचतुर्दशशतकपर्यन्तं विरचितेष्वपाणिनीयव्याकरणादिषु या व्याख्यानशैली परिदृष्टा, ततः अतिशयप्राञ्जलव्याख्यानरीतिः श्रीहरिनामामृतव्याकरणे वर्तते। अस्मिन् व्याकरणग्रन्थे सूत्राणामाक्षरिकसंक्षेपणाय वैयाकरणानां मात्रालाघवं तिरस्कृतमस्ति। व्याकरणे अस्मिन् महेश्वराद्ब्रह्मणो वा वर्णानामुत्पत्तिरित्यप्रदर्श्य, नारायणादेव वर्णानामुत्पत्तिर्जाता इति कथनेन सूत्रालोचनमारब्धमिति। वैष्णवानां ग्रन्थमणिस्वरूपमिदं श्रीहरिनामामृतव्याकरणमेवाश्रित्य मयायं प्रबन्धः प्रस्तूयते। 
श्रीजीवगोस्वामिप्रणीतश्रीहरिनामामृतव्याकरणस्थेन हरिनाममयसूत्रपाठेन वैष्णवानामिष्टो-पासनं कथं भवेत्कथं वा संस्कृतव्याकरणस्यापि सम्यक्तया ज्ञानं भवेदिति प्रदर्शनमेव प्रबन्धस्यास्य मूलं लक्ष्यम्‌। एवं प्रबन्धे अस्मिन् श्रीहरिनामामृतव्याकरणे आलोचितानां केषाञ्चन हरिनामसम्बलितानां सूत्राणां संक्षेपव्याख्यानेन तेषु सूत्रेषु प्रयुक्तानां हरिनामसम्बन्धीनां संज्ञावाचकशब्दानां हरिनामत्वं कथं सम्भवतीति तत्प्रदर्श्य तेन हरिनामसम्बलितसूत्रपाठेन कथं वैष्णवानां हरिनामसंकीर्तनं किञ्च संस्कृतव्याकरणस्य सम्यक्तयाध्ययनं भवतीति प्रस्तूयते। 
Keywords: सर्वेश्वरः, वामनः, पुरुषोत्तमः, लक्ष्मीः, कारकम्, कर्तृ, कृष्णपुरुषः, रामकृष्णः, अव्ययीभावः।

Scroll to Top