1. आधुनिकसंस्कृतसाहित्ये अवतारपुरुषो महात्मगान्धी

Dr. Sumanta Chowdhury
Assistant Professor, Dept. of Sanskrit
Sabang Sajanikanta Mahavidyalaya
Lutunia, Sabang, Paschim Medinipur, West Bengal, India
Email: srimansumanta@gmail.com

Abstract: मोहनदासकरमचाँदगान्धी भारतस्य स्वाधीनतासंग्रामस्य प्रधानपुरुष आसीत्। तस्य वर्णमयं जीवनचरितमाधारीकृत्य आधुनिककवयः असंख्येयानि काव्यानि रचयामासुः। भारतराष्ट्रनिर्माता महात्मा गान्धी सत्यस्य, अहिंसायाश्च प्रतिमूर्तिः आसीत्। सर्वेषु प्राणिषु आसीत् तस्य समभावः। स आसीत् क्षमाशीलः, सर्वान् भारतीयान् च प्रति स्नेहशीलः, निःस्वार्थी, परोपकारी, दयावान्, उत्साही, संयमी च। एतादृशगुणगुणविशिष्टः महात्मा सहृदयहृदयम् आकर्षेत् इत्यत्र किम् आश्चर्यम्। केचन कवयः तस्य जीवनदर्शनेन प्रभाविताः कवयः तस्य चरितवर्णनकाले तं दिव्यपुरुषरूपेण अवताररूपेण वा प्रतिष्ठापयितुं चेष्टितवन्तः। तत्साधयितुं तैः ब्रह्मा-विष्णु-महेश्वर-नारदादि-अलौकिकतत्त्वानां ब्रह्मविष्ण्वादिलोकानां च कल्पनां चक्रुः। वस्तुतः लौकिकानां पदार्थानाम् अलोकसामान्यतया वर्णनमेव कवेः कवित्वम्। गान्धिनः जीवनचरितम् आश्रित्य कवीनां काव्यरचनस्य महदेकमुद्देश्यं यत् काव्यमाध्यमेन जनमनसि राष्ट्रियभावनाजागरणं, भ्रातृत्वभावनाप्रोद्बोधनं, परतन्त्रतादोषविमुक्तिचिन्तनञ्च। देशवासिषु उत्साहस्य, साहसस्य, आत्मबलस्य, स्वाभिमानस्य, स्वदेशीयतायाश्च भावना यथा सञ्चारिता स्यात् स्यात् तदर्थमेव तदानीन्तनकविभिः अवतारपुरुषरूपेण वर्णितः महात्मा गान्धी। अस्मिन् प्रबन्धे तत्तत्काव्येषु दिव्यपुरुषवर्णनप्रसङ्गः आलोच्यते।

Keywords: महात्मा गान्धी, अवतारः, विष्णुः, कृष्णः, हरिः, ब्रह्मा, स्वतन्त्रता चेत्यादयः।

Scroll to Top