By prakashanjayanti@gmail.com / January 2, 2026 भारतीयज्ञानपरम्परां प्रति संस्कृतनारीकवीनां योगदानम्-एकमध्ययनम्Bhāratīyajñānaparamparāṃ prati saṃskṛtanārīkavīnāṃ yogadānam- ekamadhyayanamAuthor(s): Shesadev ParidaResearch ScholarDept. of Sanskrit, Utkal University, Vani Vihar, Bhubaneswar, Odisha, IndiaEmail: paridashesadev65@gmail.comPage no: 77-84 Abstract: भारतीयज्ञानपरम्परा प्राचीनतमं व्यापकतमं च ज्ञानसंग्रहम् अङ्गीकरोति, यत्र धर्मः, दर्शनम्, विज्ञानम्, गणितम्, आयुर्वेदः, योगः, साहित्यं, सङ्गीतं, स्थापत्यकला च समाहितम् अस्ति। एषा परम्परा न केवलं भातरस्य सांस्कृतिकं वैभवं प्रकटयति, अपि तु सम्पूर्णमानवजातेः कल्याणाय अपि प्रयोजनीया अस्ति। एषा परम्परा वेदोपनिषदादिभ्यः आरभ्य महाभारते, रामायणे, पुराणेषु, विविधदर्शनेषु योगशास्त्रादिषु च विस्तृता दृश्यते। भारतीयदर्शनप्रणाल्यः, यथा— सांख्यं, योगः, न्यायः, वैशेषिकः, वेदान्तः मीमांसा च जीवनस्य चरमसत्यम्, आत्मबोधं, मोक्षमार्गं च विवृण्वन्ति। भारतीयज्ञानपरम्परायाम् आत्मज्ञानं, तत्त्वविचारः जीवनस्य परमलक्ष्यं मोक्षप्राप्तिः च मुख्यतया उपदिश्यते। अत्र ज्ञानं न केवलं वौद्धिकम् अपि तु अनुभूतिसिद्धं, प्रयोगाधिष्ठितं च अस्ति। योगदर्शनम् आयुर्वेदः च तस्य व्यवहारिकस्वरूपं प्रातिपादयतः।संस्कृतभाषा एतेषां समस्तग्रन्थानां मूलभाषा अस्ति। एषा भाषा न केवलं ज्ञानस्य वहनं करोति, अपि तु तस्य सूक्ष्मतमं अर्थं रसं च सम्यग्व्यक्तं करोति। अतः भारतीयज्ञानपरम्परायाः अध्ययनं संस्कृतभाषायाः माध्यमेन अधिकं प्रभावशाली भवति। अधुनापि एषा ज्ञानपरम्परा नवदृष्ट्या शोध्या पाञ्चालीया न भवति। तस्य पुनरावलोकनं, संरक्षणं संवर्धनं च वर्त्तमानकाले अतीव आवश्यकं दृश्यते, यतः एषा परम्परा न केवलम् अतीतनिष्ठा, अपि तु भविष्यनिर्माणाय अपि आधाररूपा अस्ति।अस्यां परम्परायां न केवलं पुरुषैः, अपि तु स्त्रीभिः अपि अतिशयं योगदानं कृतम्। संस्कृतभाषायां नारीकवीनां स्थानं विशिष्टम् अस्ति। ताः न केवलं सौन्दर्यशिल्पम्, अपि तु समाजबोधं, आत्मबोधं च प्रदर्शयन्ति।Keywords: भारतीयज्ञानपरम्परा, संस्कृतनारीकवयः, ऋषिकाः, स्मृतिकारः, आलङ्कारिकः