By prakashanjayanti@gmail.com / January 10, 2026 श्रीराधाकान्तठाकुरकृतचलदूरवाणीखण्डकाव्ये दण्डनीतिःśrīrādhākāntaṭhākurakṛtacaladūravāṇīkhaṇḍakāvye daṇḍanītiḥAuthor(s): Tanmay BiswasResearch ScholarDept. of Sanskrit LiteratureNational Sanskrit University, Tirupati, Andhra Pradesh, India Email: biswas.tanmay2015@gmail.comPage no: 115-118Abstract: आवैदिककालात् इदानीन्तनकालान्तं संस्कृतसाहित्यस्य क्रमविकासः अवाधगतिपूर्वकं भवति। संस्कृतसाहित्येषु दृश्य-श्रव्य-गीतिकाव्यानाम् अवदानमनस्वीकार्यम्, पुनश्च आधुनिकसाहित्यस्य भूमिका अनुपेक्षणीया। आधुनिकसंस्कृतजगति जनकरुपेण रेवाप्रसादद्विवेदी-मथुरानाथशास्त्री-प्रभाशङ्करयोशी-राधावल्लभत्रिपाठी-हर्षदेवमाधवादयः महोदयाः सुप्रसिद्धाः, तेषु प्रसिद्धेषु कविषु श्रीराधाकान्तठाकुरः अन्यतमः अस्ति। तदीयप्रणीतग्रन्थः “चलदूरवाणी” इति नाम्ना विश्रुतः, पुनश्च २०१३ तमे आङ्गलवत्सरे अस्मै ग्रन्थेभ्यः केन्द्रसाहित्याकदमीपुरस्कारं प्राप्तवन्तः कविराधाकान्त-ठाकुरमहोदयाः। कविराधाकान्त-ठाकुरैः दूरवाणीमाश्रित्य ग्रन्थोऽयं विरचितोऽस्ति।महादेवशिवं नमस्कृत्य ग्रन्थोऽयं प्रारभ्यते ग्रन्थकारेण। तत्र आधुनिकसमाजे दूरवाण्याः को व्यवहारः, कीदृशं सुफलम्, किं रूपं कुफलञ्चेति विषयाः सम्यक्तया आलोचिताः कविराधाकान्तठाकुरेण। तथा चोक्तम्– “राजा च मन्त्री च पदाधिकारी चौरः श्रमी वा प्रथितोग्रवादी। श्रेष्ठी धनी वा पुरभिक्षुको यः सर्वस्य हस्ते चलदूरवाणी1”॥ इति॥मानवाः स्वीयधर्मं स्वीयकर्म च समुचितमार्गपालनपूर्वकं कुर्वन्ति चेत् समाजस्य न्यायशृङ्गला विद्यते, परन्तु यदा समाजस्य न्यायशृङ्गला शान्तिनैतिकता च विनश्यति तदा दण्डनीतिप्रयोगः कर्तव्यः। अतएव दण्डनीतिः नाम सामाजिकन्यायविचारप्रतिस्थापनस्य सोपानम्। तथा चोक्तं श्रीमद्भगवद्गीतायाम्– “यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे”2॥ इति॥अर्थशास्त्रकारेण कौटिल्येन स्वीकृतासु चतुर्विधासु विद्यासु दण्डनीतिः भवति अन्यतमा। तेन उक्तम्— “आन्वीक्षिकीत्रयीवार्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिः दण्डनीतिः”3। इति।Keywords: दण्डनीतिः, श्रीराधाकान्तठाकुरः, चलदूरवाणी, खण्डकाव्यम्, आधुनिकसाहित्यम्।