By prakashanjayanti@gmail.com / January 11, 2026 14. शक्तिनिर्णायकेषु सामर्थ्यमाश्रित्य शाब्दिकसिद्धान्ताःSuman DasPh.d. Research ScholarRamakrishna Mission Vidyamandira,Belur Math, Howrah, West Bengal, IndiaEmail: suman28das@gmail.comAbstract: अर्थावगत्यर्थः शब्दप्रयोगः क्रियते। केचन एकार्थकाः केचन अनेकार्थकाश्च शब्दाः प्राप्यन्ते। अनेकार्थकशब्दस्थले कदा कोऽर्थ आश्रयणीय इति निर्णयः कथं कर्तुं शक्यत इति शास्त्रकृद्भिः शक्तिनियन्त्रकाः केचन स्वीकृताः येन नानार्थकशब्दानां स्थलविशेषे अर्थविशेषस्यैव नियन्त्रणं कर्तुं शक्यते। संयोगादिनिर्णायकेषु सामर्थ्यमेकं निर्णायकम्। सामर्थ्यरूपं शक्तिनियन्त्रकं समाश्रित्य पाणिनिव्याकरणे परिलक्षितेषु स्थलेषु कानिचन स्थलानीह शोधपत्रे यथामति आलोच्यन्ते। तानि— प्रथमानिर्दिष्टं समास उपसर्जनं, तुल्यास्यप्रयत्नं सवर्णम्, अदर्शनं लोपः, तस्य लोपः, संयोगे गुरुः, अपवर्गे तृतीया, साधकतमं करणं, अधीगर्थदयेशां कर्मणि, यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी, कृत्तद्धितसमासाश्च चेत्यादीनि स्थलानि शास्त्रमनतिक्रम्य यथामति आलोचयामि।Keywords: शक्तिनिर्णायकः, सामर्थ्यम्, अदर्शनं, गुरु, साधकतमम्।