By prakashanjayanti@gmail.com / January 10, 2026 शान्तरसस्य स्थायीभावनिर्णये सांख्यदर्शनस्य सापेक्षताśāntarasasya sthāyībhāvanirṇaye sāṃkhyadarśanasya sāpekṣatāAuthor(s): Vaskar DasResearch Scholar, Dept. of SanskritRamakrishna Mission VidyamandiraBelur Math, Howrah, West Bengal, IndiaEmail: das98vaskar@gmail.comPage no: 119-124Abstract: अलंकारशास्त्रे रसस्य प्रधान्यं प्रायः सर्वैरेव स्वीक्रियते प्रत्यक्षरूपेण परोक्षरूपेण वा। अस्य रसस्योत्पत्तिविषये यथा विदां मतपार्थक्यं विद्यते तथैव अस्य संख्याविषयेऽपि आलंकारिकेषु विवादः दृश्यते। सर्वादौ आद्याचार्येण भरतेन तस्य नाट्यशास्त्रे रसस्य अष्टविधत्वं स्वीक्रियते। किन्तु अभिनवगुप्तेन तस्य अभिनवभारत्यां शान्तस्य रसत्वं स्वीक्रियते। ततः मम्मटादि आचार्या अपि शान्तस्य रसत्वं स्वीकुर्वन्ति। किन्तु शास्तस्य रसत्वस्वीकृतेऽपि तस्य स्थायीभावविषये आलंकारिकेषु वैमत्यं दृश्यते। तेषु कोऽपि तत्त्वज्ञानमेव शान्तस्य स्थायीभावरूपेण स्वीकरोति तथा केनापि शममेव शान्तस्य स्थायीभावरूपेण कथ्यते। किन्तु ये निर्वेदस्य स्थायीभावत्वं स्वीकुर्वन्ति तेषां मतानां बहुप्रकारेण खण्डनं भवति। अभिनवगुप्तेनैव सर्वादौ निर्वदस्य स्थायीभावत्वमस्वीकृत्य तस्य खण्डनं क्रियते, तस्मिन् खण्डनकाले स्वमतस्य पुष्टिवर्धनाय अभिनवगुप्तेन सांख्यमतस्योल्लेखः क्रियते प्रमाणरूपेण। विषयेऽस्मिन् विस्तारेण आलोचना मम शोधपत्रे विद्यते। अतः अत्र सांख्यदर्शनस्य सापेक्षता विद्यते। पुनः अभिनवगुप्तेन शान्तरसस्य प्रकृतित्वं स्वीक्रियते तथा अन्यानां रत्यादिभावानां विकारत्वं स्वीक्रियते। साधारणतः प्रकृतिविकृतेः धारणा सांख्ये प्राप्यते। अतः अत्रापि सांख्यस्य प्रभावः द्रष्टुं शक्नोमि। अनेन प्रकारेण शान्तस्य रसत्वनिर्णये स्थायीभावनिर्णये वा सांख्यदर्शनस्य प्रत्यक्षरूपेण परोक्षरूपेण वा प्रभावः द्रष्टुं शक्यते इति सारः। Keywords: प्रकृतिविकृतिः, स्थायीभावः, सञ्चारीभावाः, शमः, निर्वेदः, तत्त्वज्ञानम्।