By prakashanjayanti@gmail.com / January 11, 2026 16. रघुवंशमहाकाव्ये आचारशास्त्रीयानुशीलनम्Susmita SahooM.A in SanskritVidyasagar University, Midnapore, West Bengal, IndiaEmail: susmitasahoo13061996@gmail.comAbstract: भारतीयसंस्कृतौ वहुप्राचीनकालादारभ्यः आचारस्य महत्त्वं विद्यते। ‘आचारः परमो धर्मः’ इति नीतिमेव भारतीयाः श्रेष्ठधर्मरूपेण स्वीकुर्वन्ति। अपिच धर्मस्य तृतीयप्रमाणरूपेण आचारस्य महत्त्वमतीवगुरुत्वपूर्णम्। वेदेषु, उपनिषत्सु, सर्वासु स्मृतिषु, सर्वेषु धर्मसूत्रेषु च आचारविषये प्रतिपादितमस्ति। श्रुतिस्मृतिप्रोक्तं शास्त्रीयाचरणम् आचारमिति कथ्यते। व्याकरणदृष्ट्या आचारशब्दः आङ् उपसर्गपूर्वकं चर् धातोः भावार्थे घञ् प्रत्ययकृते सति निष्पत्तिर्भवति, अथवा ‘आचरति एनम् अनेन इति वा’ इत्यर्थे आचारशब्दः निष्पद्यते। आचारस्य पर्यायरूपेण धर्मः, नीतिः, कर्तव्यश्चेति शब्दाः प्रयुज्यन्ते। आचारशब्दः सदाचारस्य द्योतको भवति। आचारेण एव समाजस्य स्थापनं, विकासः व्यक्तेः समाजस्य च चारित्रिकबलस्योन्नतिः सम्भवेदिति। अतएव आचारपरिपालनमेव भारतीयधर्मस्य परमं वैशिष्ट्यम्। आचारशास्त्रविषयकाः चर्चा: न केवलं धर्मशास्त्रीयनिवन्धग्रन्थेषु सीमावद्धाः सन्ति अपितु लौकिक– संस्कृतसाहित्यग्रन्थेष्वपि संस्कृतमहाकवयः नाट्यकाराश्च तेषु रचनासु एषा चर्चा: कृताः सन्ति। संस्कृतसाहित्याकाशे कविकुलगुरुकालिदासस्य स्तानमतीवमहत्त्वपूर्णम्। तस्य विरचिताः ग्रन्थाः जनहृदये सदा विलासिताः सन्ति। महाकविकालिदासेन शास्त्रविहिताचारपद्धतिम् आचरणस्य महत्त्वपूर्णमङ्गमिति मन्यते। तस्यानुसारं मनुष्यस्य सर्वाङ्गीन विकासः शास्त्रानुकूलाचारपालनेन एव सम्भवति। तस्य रचनासु सर्वत्र प्रतिपदं शास्त्रानुकूलाचाराणां चर्चा: दृक्गोचरी भवन्ति। अतः कविकूलगुरोः कालिदासस्य अनुपम साहित्यकृतिः रघुवंशमिति ऊनविंशतिसर्गात्मके महाकाव्ये प्रतिपादिताः सामाजिक–राजनैतिक–आर्थिक–धार्मिक–नैतिक श्चेत्यादयः आचारविषयाः अस्मिन् प्रवन्धे समासेन आलोच्यन्ते। Keywords: रघुवंशम्, कालिदासः, आचारः, सदाचार:, धर्म:, शास्त्रम्।