श्रीमद्भगवद्गीतोपदिष्टगुरुतत्त्वस्य सिद्धसिद्धान्तपद्धत्यां समन्वय:
Sudhanshu Kumar Tiwari
Dept. of Vaidic Darshan
Faculty of SVDV
Banaras Hindu University, Varanasi, India
Email: skyoga@bhu.ac.in
Abstract: भारतीयतत्त्वपरम्परायां गुरुतत्त्वस्य विशेषस्थानं वर्तते। विशेषतः नाथयोगसम्प्रदायस्य ग्रन्थेषु सिद्धसिद्धान्तपद्धत्यां गुरुः न केवलम् आध्यात्मिकमार्गदर्शी, अपि तु साक्षात् शिवस्वरूपः परंकारणं च परिगणितः। अस्मिन्ग्रन्थे गुरोः विना परमपदप्राप्तिर्न सम्भवेत्येव प्रतिपाद्यते । श्रीमद्भगवद्गीता अपि भगवतः श्रीकृष्णस्य माध्यमेन अर्जुनाय उपदिष्टा या अस्ति, तस्यामपि गुरुतत्त्वस्य महान् महत्वं निरूप्यते, अतः तत्त्वेऽस्मिन् योगमार्गस्य रहस्यं निहितम्। सिद्धसिद्धान्तपद्धत्यामपि हठयोगस्य आधाररूपेण गुरोः अतीव महत्त्वं प्रतिपादितम्। अत्र लेखे उभयोः ग्रन्थयोः मध्ये गुरुतत्त्वस्य समन्वयात्मकं चिन्तनं समुपस्थाप्यते ।
Keywords: श्रीमद्भगवद्गीता, सिद्धसिद्धान्तपद्धतिः, गुरुतत्त्वम्, गुरुप्रसादः, उपदेशतत्त्वम्, मोक्षोपायः, गुरुकृपा।