19. भारतीयज्ञानपरम्परायां विद्यमानानां कतिपयदर्शनकोषग्रन्थानामैतिह्यमनुशीलनञ्च

Rajib Mandal
Research Scholar, Dept. of Sanskrit Vyakarana
Central Sanskrit University
Janakpuri, New Delhi, India
Email: mandalrajib624@gmail.com 

Abstract: कुश् धातोः घञ् अच् वा प्रत्ययकृते सति कोश इति शब्दः निष्पन्नो भवति। कोश इत्यनेन आच्छादनं शब्दार्थनिरुपणञ्चेति बोध्यते। संस्कृतशास्त्रजगति वैदिकसाहित्ये, काव्यसाहित्ये, व्याकरणशास्त्रे, दर्शनशास्त्रे, पुराणशास्त्रे, धर्मशास्त्रे च कोषशास्त्रस्य अवस्थानं प्राथम्येन सर्वत्र गृहीतं दृश्यते। इदमेव कोषशास्त्रं समग्रशास्त्रेषु विशिष्टरूपेण तथा शास्त्रशीर्षकरूपेण जगति सुष्ठु परिगण्यते। अभिधानमिति नाम्ना कोषः इत्यस्य बोधः भवति। पुनः कोषः इति नाम्ना शब्दानां किञ्चन अर्थबोधकज्ञानवर्धकशास्त्रमिति ज्ञायते। अध्ययनाध्यापनयो: क्षेत्रे तथा नानाप्रकारक-भाषाव्यवहारक्षेत्रे शास्त्रीयनानार्थबोधे च कोषग्रन्थानां महती भूमिका विद्यते अनुभूयते च। अनुसन्धानेऽपि कोषग्रन्थस्य महत्त्वं सर्वैः स्वीकृतं दृश्यते। ज्ञानाधिगमप्रक्रियायां वेगमवाप्तुम्, आपाततः त्वरितं जिज्ञासितमर्थं ज्ञातुं, सन्दर्भं ज्ञातुं, शास्त्राणां नानाविधदिग्दर्शनार्थं च अनुसन्धित्सवः बहुधा कोषग्रन्थानामेव शरणमुपयान्ति आश्रयन्ति च। वेदाङ्ग‌कालादारभ्य अद्य यावत् बहुविधाः नानाशैलीयुक्ताः विविधभाषोपनिबद्धाः भिन्नसम्प्रदायप्रेरिताः कोषग्रन्थाः बहुभिः प्रथितविद्वद्भिः स्वस्वसमये स्वस्वावश्यकतानुसारेण भिन्नभिन्नकालखण्डे भिन्नभिन्नस्थाने विरचिताः। तेषु कतिचन वैदिकाः, शास्त्रीयाः, दार्शनिकाः, वैयाकरणाः, पारिभाषिकाः वा पुनः कतिचित् तु शब्दार्थनिरूपणपराः सन्ति। आकारदृष्ट्या तथा प्रकारदृष्ट्या कोषग्रन्थानां विशालसागरः प्राप्यते। वेदे, व्याकरणे, काव्ये, दर्शने, पुराणे, धर्मशास्त्रे च शालान्तरवत् कोषग्रन्थानामपि भिन्नभिन्न-पण्डितैः भिन्नभिन्नप्रकारेण प्रणयनं दृश्यते। भारतीयज्ञानपरम्परां प्रति कोषग्रन्थानां महत्वपूर्णं योगदानं दृश्यते। विशेषतः दर्शनकोषेण दर्शनशास्त्रसम्बन्धितग्रन्थानां शास्त्रीयार्थसाधने, पारिभाषिकशब्दार्थसाधने, निगूढार्थबोधे, नानार्थज्ञापने, शिष्टव्याख्यानकृते, शब्दानां यथार्थप्रयोगे, शब्दानां नूतनशैली-प्रदर्शने च महत्वपूर्णं योगदानं परिलक्ष्यते। पुनः शास्त्रीयपद्धतिरक्षणार्थे, सर्वेक्षणपद्धतिरक्षणार्थे, समाजशास्त्रीयपद्धतिरक्षणार्थे, क्षेत्रीयाध्ययनपद्धति-रक्षणार्थे च कोषग्रन्थानां पूर्णतया आवश्यकता विद्यते।

Keywords: कोषः, दर्शनम्, दर्शनकोषः, दार्शनिकचिन्तनम्, भारतीयज्ञानपरम्परा।

Scroll to Top