By prakashanjayanti@gmail.com / January 2, 2026 नदीवाचकशब्दा ऋग्वेदश्चNadīvācakaśabdā R̥gvedaśca Author(s): Dr. Ranu GhoshResearch AssistantSchool of Vedic StudiesRabindra Bharati University, Kolkata, West Bengal, IndiaEmail: ranunandini17@gmail.comPage no: 8-30Abstract: विश्वस्य प्राचीनतमा हृद्या, निरवद्या, सकलैरपेक्षितैः संस्कारैस्सम्पन्ना, साहित्य-काव्य-कोश-व्याकरणादि सर्वाङ्गैस्समन्विता अनादिकालतः काले काले परमात्मनावतीर्य संरक्षिता महोभिगौरवमण्डितास्ति संस्कृतभाषा। भाषायामस्यामेव एकशतमध्वर्युशाखा, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यम्, नवधाऽथर्वाणो वेद इति महाभाष्योक्ताभिः1 एकत्रिंशोत्तरैकादशशाखाभिः(११३१) समन्विताः ऋग्यजुः सामाथर्वाणो वेदाः शिक्षाकल्पनिरुक्तछन्दोज्योतिर्व्याकरणाख्यैः षड्भिः वेदाङ्गैस्समेधिता विराजन्तेतराम्। सनातनसंस्कृतेः समुज्ज्वलस्वरूपप्रकाशने वेदाः सन्ति विमलदर्पणकल्पाः। वेदास्त्वपौरुषेयाः, अपि तु परमेश्वरस्य निःश्वासात्समुद्भूताः। विश्वसाहित्ये सर्वतः प्राचीनतमो ग्रन्थः वेद एव ऐहिकामुष्मिकोभयविधश्रेयःसाधनस्य धर्मस्य तत्फलं दातुरीश्वरस्य च प्रकाशकः। उक्तं च –“प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।एनं विदन्ति वेदेन तस्मात् वेदस्य वेदता”॥2 इति।निखिलेऽस्मिन् जगतीतले भारतवर्षस्य महती प्रतिष्ठा वेदमाश्रित्यैवास्ति। मानवजातेरितिवृत्तस्य आधुनिकभाषाविज्ञानस्य च स्वरूपं वेदाध्ययनेनैव परिशील्यते। इदमपि सत्यमतिरोहितमेवास्ति यद् शिक्षादिषडङ्गानां तथा षड्वेदाङ्गानां मौलिकानुशीलनं, पर्यालोचनं, मननं चान्तरेण वेदानां रहस्यं ज्ञातुमशक्यमेव। एतेषु शिक्षादिषु षड्वेदाङ्गेषु निरुक्तमेव वेदपुरुषस्य श्रोत्ररूपेण कल्पितम्। तदेव वेदस्य चतुर्थमङ्गमास्ते।भगवता यास्केन निरुक्त-ग्रन्थस्य नैघण्टुक-नैगम-दैवतकाण्डरूपेण त्रिविधं काण्डं स्वीकृतम्। तेषु त्रिविधेषु काण्डेषु निघण्टु एव वैदिककोषग्रन्थः। तत्र गौरादिदेवपत्न्यन्तशब्दाः आम्नाता दृश्यन्ते। तेषामेव शब्दानां निर्वचनमस्माभिः निरुक्तग्रन्थे समुपलभ्यन्ते। निघण्टौ गौरादिदेवपत्न्यन्तेषु शब्देषु नदीवाचकशब्दानां रूपतत्त्वार्थसमीक्षणं ऋग्वैदिकसाहित्ये तेषां प्रयोगश्च गवेषणापत्रस्यास्य निदानभूतमेव।Keywords: निघण्टुः, निघण्टुस्थिताः नदीवाचकशब्दाः, ऋग्वेदः, वैदिककोषः।