By prakashanjayanti@gmail.com / January 11, 2026 2. महाभारते शान्तरसःDr. Sujal Pahari Asst. Teacher Bk. TPP Prabir Sengupta Vidyalaya. BkTPP, Sadaipur, Birbhum, West Bengal, IndiaEmail: sujalpahari2@gmail.comAbstract: अस्मिन् लेखे महाभारते शान्तरसस्य स्वरूपं तस्य च प्रतिफलनं विवेचितम्। नाट्यशास्त्रे भरतमुनिना प्रतिपादितं शान्तस्वरूपं अभिनवगुप्तेन “शान्त एव रसः श्रेष्ठः” इत्युक्त्या समालम्ब्य विशेषरूपेण निरूपितम्। महाभारते भीष्मस्य शरशय्या, युधिष्ठिरस्य वैराग्यदृष्टिः, श्रीकृष्णेन प्रदत्ता गीता, विदुरनीतिः, अश्वत्थाम्नः मौनं च—एतेषु प्रसङ्गेषु शान्तरसः सुस्पष्टं दृश्यते। अन्यशास्त्रेषु—उपनिषद्, गीता, विष्णुपुराण, योगसूत्रादिषु—शान्तेः अनिवार्यता प्रतिपादिता। अङ्ग्लसाहित्ये (Eliot, Wordsworth इत्यादिषु) तथा हिन्दी-साहित्ये (महादेवी वर्मा, बच्चनादिषु) अपि शान्तरसस्य प्रतिध्वनिः आढ्यः। अतो निष्कर्षः—महाभारतम् केवलं युद्धमहाकाव्यं न, अपि तु शान्तरसस्य दार्शनिक–साहित्यिक–आध्यात्मिकसन्देशस्य संवाहकं महाग्रन्थरूपेण प्रतिष्ठितम्।Keywords: महाभारतम्, शान्तरसः, भीष्मः, युधिष्ठिरः, भगवद्गीता, विदुरनीतिः, भरतमुनिः, मोक्षमार्गः।