ब्रह्मणो हि प्रतिष्ठाऽहमिति स्मृत्यर्थसम्मर्शः
Brahmaṇo hi pratiṣṭhā’hamiti mṛtyarthasammarśaḥ

Author(s): Tirthankar Dey
Research Scholar
Ramakrishna Mission Vivekananda 
Educational and Research Institute
Belur Math, Howrah, West Bengal, India
Email: tirthankar1998dey@gmail.com
Page no: 31-36

Abstract: ब्रह्मणो हि प्रतिष्ठाहम् इति इमां स्मृतिमाश्रित्य विचारः शोधपत्रेऽस्मिन् उपस्थापितः। अस्याः स्मृतेः व्याख्यानं भगवान् भाष्यकारः द्वेधा कृतवान्। प्रथमव्याख्यानसन्दर्भे ब्रह्मणः इति पदेन परमात्मा गृह्यते, अहमिति पदेन प्रत्यगात्मा ग्राह्यः। तेन अहं प्रत्यगात्मा वासुदेवः परमात्मनः प्रतिष्ठाभूतः अस्मि। द्वितीयव्याख्यानसन्दर्भे ब्रह्मणः इति पदेन सविकल्पकं ब्रह्म ग्राह्यम्, अहमिति पदेन निरुपाधिकं ब्रह्म स्वीकर्तव्यम्। तेन अहं निरुपाधिकं ब्रह्म सविकल्पकब्रह्मणः प्रतिष्ठा अस्मि इति तात्पर्यार्थः। श्रीधराचार्यनये तु अहं वासुदेवः परमात्मनः प्रतिष्ठा अस्मि इत्येव तात्पर्यभूतः अर्थः। तत्र एकं विलक्षणं दृष्टान्तं श्रीधराचार्यः प्रयुङ्क्ते घनीभूतः प्रकाशः एव सूर्यमण्डलम् इति सूर्यमण्डलप्रकाशयोः भेदः यथा न सम्भवति। तद्वत् अहमपि ब्रह्मणः स्वरूपभूतः इत्यर्थः। मधुसूदनाचार्यस्तु अहमिति पदेन निरुपाधिकं ब्रह्म गृह्णाति, ब्रह्म इति पदेन सविकल्पकं ब्रह्म गृह्णाति। तेन अयमर्थः सिद्ध्यति मधुसूदनाचार्याणां पक्षे— अहं निरुपाधिकं ब्रह्म अमृतादिविशेषणयुक्तस्य सविशेषब्रह्मणः प्रतिष्ठा अस्मि इति।
Keywords: स्मृतिः, ब्रह्मस्वरूपम्, ईश्वरः, ब्रह्मलाभः। 

Scroll to Top