केवलाद्वैतविशिष्टाद्वैताचिन्त्यभेदाभेददिशा सन्न्यासयोगयोरभेदविमर्शः 
kevalādvaitaviśiṣṭādvaitācintyabhedābhedadiśā sannyāsayogayorabhedavimarśaḥ

Author(s): Dr. Tridib Roy Mondal
Assistant Professor, Dept. of Snaskrit,
Diamond Harbour Women´s University
South 24 Parganas, West Bengal, India.
Email: tridibrm@gmail.com
Page no: 30-35

Abstract: शोधप्रबन्धेऽस्मिन् फलाभिसन्धिरहितस्य गार्हस्थाश्रमिणः तादृशनिष्काम-कर्मणा शुद्धसत्त्वद्वारेण ध्यानयोगारूढत्वम्, सकामिभ्यः निष्कामिणामुत्कृष्टत्वख्यापनम्, फलतृष्णावन्तं कर्मिणम् अपेक्ष्य निष्कामकर्मिणां स्तुत्यर्थं सन्न्यासित्वकथनम्, निष्कामकर्मयोगविविदिषासन्न्यासयोः फलपरित्यागरूपसाम्यात् चित्तशुद्धिरूपफलसादृश्यात् च निष्कामकर्मिणः सन्न्यासित्वकथनम्, विविदिषासन्न्यासिनः विद्वत्सन्न्यासिनः च स्वरूपम्, विशिष्टाद्वैतभाष्यदिशा कर्मणः ज्ञानापेक्षया श्रेष्ठत्वम्, ज्ञानकर्मयोगयोः परमार्थतोऽभिन्नत्वम्, विद्याभूषणभाष्यदिशा कर्मयोगेन उभयोः ज्ञानकर्मयोगनिष्ठयोः सम्पादनम्, निष्कामकर्मयोगिनः सन्न्यासित्वाष्टाङ्गयोगित्वप्रतिपादनम्, कर्मयोगेन ज्ञानकर्मयोगनिष्ठत्वप्रतिपादनपरकं रामानुजबलदेवविद्याभूषणोक्तं मतं केवलाद्वैतभाष्यदिशा सप्रमाणपुरःसरं खण्डनम्, यमनियमाद्यन्तरङ्गसाधनानुष्ठानाभ्यासरूपः विविदिषासन्न्यास इति शङ्करमतस्य उत्कृष्टत्वम्, सन्न्यासः नाम आत्मयाथात्म्यज्ञानमिति रामानुजमतस्यानुत्कृष्टत्वम्, कृत्स्नेन्द्रियविरतिरूपः सन्न्यास इति बलदेवविद्याभूषणमतस्याप्यनुष्टत्वं चेत्यादयः बहवः राद्धान्ताः श्रीमद्भगवद्गीताभाष्य-ब्रह्मसूत्रभाष्य-गीताभूषणभाष्य-सारार्थदीपिका-गूढार्थदीपिका-वेदान्तपरिभाषा-पञ्चदशीनैष्कर्म्य-सिद्ध्यादिग्रन्थपर्यावलोकनेन सप्रमाणं यथामति निगदिताः।
Keywords: ब्रह्म, आत्मा, मोक्षः, कर्म, संसारः, अज्ञानम्, सन्न्यासः।
Scroll to Top