रघुवंशमहाकाव्ये अव्ययीभावसमासस्य प्रयोगविमर्शौ
Raghuvaṃśamahākāvye avyayībhāvasamāsasya prayogavimarśau

Author(s): Tuhin Mandal
Research Scholar
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math, Howrah, West Bengal, India
E-mail: tuhinmandal55@gmail.com

Dr. Rakesh Das
Assistant Professor & HOD, Dept. of Sanskrit & Philosophy
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math, Howrah, West Bengal, India
E-mail: rakdas@gmail.com
Page no: 44-51

Abstract: कविकुलगुरोः कालिदासस्य निरवद्या साहित्यकृतिः रघुवंशम् इति महाकाव्यम्। महाकाव्येऽस्मिन् महाकविना रघुवंशीयनृपाणां वंशवर्णनं विहितम्। तत्र ऊनत्रिंशत्-राज्ञां चरितवर्णनं लभ्यते। ऊनविंशतिसर्गात्मके अस्मिन् महाकाव्ये रघूणां वंशवर्णनावसरे कालिदासेन समासवृत्तेः आश्रयः कृतः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। एताः पञ्च वृत्तयः अपि रघुवंशे परिलक्ष्यन्ते। परन्तु सर्वापेक्षया आधिक्यम् अस्ति समासवृत्तेः। तत्रापि पञ्चविधेषु समासेषु तत्पुरुषसमासस्यैव आधिक्यम्। केवलसमासः, अव्ययीभावः, द्वन्द्वः, तत्पुरुषः, बहुव्रीहिः इति समासानां पञ्च भेदाः। अस्मिन् प्रबन्धे वयं सम्पूर्णमहाकाव्ये अव्ययीभावसमासविषये आलोचयामः। तथाहि अस्मिन् काव्ये अव्ययीभावसमासस्य संख्या कियती विद्यते, कुत्र कुत्र अव्ययीभावसमासस्य प्रयोगः अस्ति, प्रयोगः पाणिनीयः अस्ति न वा, यस्मिन् पदे अव्ययीभावसमासः विद्यते तस्य विग्रहवाक्यं किं भवति, व्याख्यानादिषु क्वचित् विग्रहवाक्यं दोषयुक्तं लभ्यते वा, इत्यादिविषयाः अस्मिन् प्रबन्धे आलोच्यन्ते।

Keywords: रघुवंशम्, कालिसासः, अव्ययीभावः, समासः, विग्रहवाक्यम्।

Scroll to Top