By prakashanjayanti@gmail.com / January 10, 2026 वैयाकरणसिद्घान्तकौमुद्या अपत्याधिकारप्रकरणोपेतबालमनोरमायां ग्रन्थान्तराणां प्रभावःVaiyākaraṇasiddhāntakaumudyā apatyādhikāraprakaraṇopetabālamanoramāyāṃ granthāntarāṇāṃ prabhāvaḥAuthor(s): Tanay BaidyaPh.D. scholarRamakrishna Mission VidyamandiraBelur Math, Howrah, West Bengal, IndiaEmail: tanaybaidya656@gmail.comPage no: 52-61Abstract: व्याकरणस्य सम्यग्ज्ञानाय प्रथमसोपानरूपेण यथा दीक्षितकृतवैयाकरण-सिद्धान्तकौमुद्याख्यस्य प्रक्रियाग्रन्थस्य ज्ञानमावश्यकं तथा तद्ग्रन्थेन सार्धं ग्रन्थगतग्रन्थान्तराणामपि पाठोऽपेक्षितः। यतो हि कदाचित् ग्रन्थस्योद्धृत्या सम्यग्ग्रन्थार्थप्रकाशं न सम्भवति। तस्मात्तत्र यथार्थज्ञानाय ग्रन्थस्थितायाः टीकायाः बोधमत्यावश्यकम्। टीका यथायथं ग्रन्थार्थं प्रकाशयति। कथञ्चित् टीकाध्ययनेऽपि काठिन्यमुत्पद्यते, यदि तस्यां टीकायां ग्रन्थान्तराणां प्रभावो दृश्यते। अत एवादौ तत्र अन्यग्रन्थानां ज्ञानं, ततःपरं तज्ज्ञानमादाय टीकाया अध्ययनं कर्तव्यमिति निश्चप्रचम्। वस्तुतस्तु व्याकरणशास्त्रे दीक्षितप्रणीतसिद्धान्तकौमुद्याः व्याखानरूपेण बालमनोरमानामाख्य-टीकेयं प्रसिद्धा। परन्तु टीकाकृता वासुदेवेन तत्कृतटीकायाः प्रतिपादनकाले बहूत्र प्रसङगं दर्शयित्वा अन्यग्रन्थानां नाममात्रेण उल्लिखितमस्ति। तस्मात्तत्र अध्येतॄणां सन्देहस्समुद्भवति। कुत्रचित् बालमनोरमाकृत् कमपि मतमनुक्त्वा एव ग्रन्थान्तराणां नामोल्लिख्य ‘स्पष्टम्’ इत्युक्त्वा विरमति। तेन विवक्षितार्थस्य प्रकृतज्ञानं न अवगम्यते। एवमेव बालमनोरमाख्यटीकाव्याख्याने नैकानां ग्रन्थानां प्रभावो दरीदृश्यते। तद्यथा महाभाष्यम्, प्रदीपोद्यतटीका, शब्देन्दुशेखरः, मञ्जूषा इत्यादिनां प्रभावः परिलक्ष्यते। परन्त्वस्मिन्शोधपत्रे मुख्यत्वेन केवलं प्रदीपशेखरादिप्रौढग्रन्थानां प्रभाव उपस्थाप्यते। कारणं ह्यपत्याधिकारस्थ-बालमनोरमाया व्याख्यानकाले टीकाकृता बहुत्र ग्रन्थान्तराणां समावेशस्साधितः।Keywords: तद्धितः, अपत्यम्, गोत्रम्, कैयटवचनम्, लौकिकमतम्।