By prakashanjayanti@gmail.com / January 2, 2026 अद्वैतशास्त्रदिशा क्रममुक्त्यङ्गीकारे उपपत्तयःAdvaitaśāstradiśā kramamuktyaṅgīkāre upapattayaḥAuthor(s): Dr. Kartik MeteAssistant Professor, Dept. of SanskritGovernment General Degree College, Kalna-1Purba Bardhman, West Bengal, IndiaEmail: kartikmete@gmail.comPage no: 57-60 Abstract: तत्त्वज्ञानेन अविद्याकामकर्मनिवृत्तिद्वारा आत्यन्तिकशरीरनिवृत्तिं जन्मबन्धनिवारणेन कश्चित् मोक्षकामी कश्चित् भवति। विदेहमुक्तस्य गत्यागती न स्तः। “अत्र ब्रह्म समश्नुते। न तस्य प्राणाः उत्क्रामन्ति” इत्यादिश्रुतेः जन्मबन्धविनिर्मुक्तस्यास्य गमनागमनं नास्ति। ब्रह्मलोकगमनं तस्य नोपपद्यते। तस्मात् क्रममुक्तिः विदेहमुक्तौ नान्तर्भवति। तस्मात् भिन्नम्। जीवन्मुक्तौ अपि क्रममुक्तिः नान्तर्भूता। कुतः इति उच्यते लिङ्कशरीरे कारणशरीरे अहंत्वममत्वाभिमानः नास्ति। क्रममुक्तस्य तु अस्ति। एवं जीवन्मुक्तौ अपि तस्य नान्तर्भावः। तस्मात् ब्रह्मलोकप्राप्तिरूपा क्रममुक्तिः तृतीया काचित् गतिः यया उत्तरकाले साधकः श्रवणमनननिदिध्यासनेन क्रमेण विदेहमुक्तः स्यात् इति। इयञ्च क्रममुक्तिः अधिकारिभेदात् कर्मनाशभेदात् साधनभेदात् गत्यागतिभेदात् च अद्वैतनये उपपद्यते इति आलोच्यमानस्य प्रबन्धस्यास्य विषयसारः।Keywords: गत्यागतिः, क्रममुक्तिः, ब्रह्मलोकः, सगुणब्रह्मविद्या, सगुणब्रह्मोपासना, पञ्चाग्निविद्या