योगोपनिषदनुसारं नाडीविज्ञानम् – एकमध्ययनम्
Yogopaniṣadanusāraṃ nāḍīvijñānam – ekamadhyayanam

Author(s): Alok Bepari
Research Scholar, Dept. of Sankhya-Yoga
National Sanskrit University, Tirupati, Andhra Pradesh, India 
Email: alokbalok197@gmail.com
Page no: 62-68

Abstract: ‘नाडीविज्ञानम्’ नाम नाडीसम्पर्कितविज्ञानम्, ‘नड् णिच् इन् ङीष्’ इति प्रक्रियात्वात् ‘नाडी’ पदं निष्पन्नञ्जायते। मानवशरीरेषु प्राणवायुप्रवाहमार्गोऽस्ति नाडी, पुनश्च सर्वेषां जीवानामाधारमात्रात्मशक्तेस्सोपानमिति। अस्मदीयभोगायतनेषु द्विसप्ततिसहस्रनाड्यो विद्यन्ते, तासु द्विसप्तति नाड्यः प्रमुखाः सन्ति। पुनश्च इडा पिङ्गला सुषुम्ना गान्धारी हस्तिजिह्वा पूषा यशस्विनी अलम्बुसा विश्वोदरी कुहूः पयस्विनी सरस्वती चेति प्रधानतमाः सन्ति। आवैदिककालादिदानीन्तनकालावधिः चिकित्साव्यवस्थायाम् उर्युक्तनाडीनां विशेषभूमिका वर्तते। अतएव रोगनिरूपण-लक्षण-निदानादिकार्येषु नाडीविज्ञानस्योपयोगो दरीदृश्यते। सर्वान्तिमे एवं वक्तुं शक्यतेऽस्मदीयजीवनेषु नाडी अन्यतमा प्रधानाऽस्ति, अतएव नाडीविज्ञानं यथासम्भवं ज्ञातव्यमिति मामकोऽभिप्रायः।

Keywords: नाडी, सुषुम्ना, इडा, पिङ्गला, ब्रह्मरन्ध्रः, सरस्वती, योगोपनिषद् च।

Scroll to Top