By prakashanjayanti@gmail.com / January 2, 2026 हरिदास-रेवाप्रसादाचार्य्ययोः काव्यलक्षणविमर्शःHaridāsa-revāprasādācāryyayoḥ kāvyalakṣaṇavimarśaḥAuthor(s): Basanta ChandraResearch Scholar, Dept. of SanskritRamakrishna Mission VidyamandiraBelur Math, Howrah, West Bengal, IndiaEmail Id: shrimanbasanta@gmail.comPage no: 61-67Abstract: मयात्र आधुनिकयोः हरिदाससिद्धान्तवागीश-रेवाप्रसादद्विवेदिमहोदययोः काव्यलक्षणे समासेनालोचिते। आधुनिकालङ्कारिकाचार्यहरिदास-सिद्धान्तवागीशमहोदयः तदीये काव्यकौमुदीग्रन्थे प्रथमकलायां शब्दार्थयोरुभयोः काव्यपदवाच्यतां स्वीकुर्वन् काव्यलक्षणं निरूपयति— ‘मनोहारिणौ शब्दार्थौ काव्यम्’ इति।अत्र काव्यमिति लक्षणघटकं पदम्, मनोहारिणौ शब्दार्थौ चेति लक्ष्यघटके पदे। शब्दार्थौ इति विशेष्यवाचकं पदम्, मनोहारिणौ इति च तस्य विशेषणवाचकं पदम्। ‘काव्यं पठितं’ ‘काव्यं श्रुतं’ ‘काव्यं गीतं’ इत्याद्युभयविधव्यवहारदर्शनात् शब्दार्थयोरुभयोः काव्यत्वं स्वीक्रियते। शब्दार्थयुगलं काव्यं भवतीति निष्कर्षः। एतेन शब्दत्ववादिविश्वनाथजगन्नाथादीनां काव्यलक्षणं खण्ड्यते। तौ च शब्दार्थौ मनोहारिणौ भवतः। मनोहारित्वं नाम रसिकानामाह्लादक-जनकत्वमिति। शब्दार्थौ काव्यमित्येव काव्यलक्षणं भवति चेत् श्रोत्रिय-जरन्नैयायिक-मीमांसकानां वाक्येषु काव्यलक्षणस्यातिव्याप्तिर्भवति, तेषां वाक्येषु आह्लादकत्वाभावादित्यस्मात् काव्यलक्षणे मनोहारिणौ इति पदोपादानम्। रेवाप्रसादद्विवेदिमहोदयेन काव्यालङ्कारकारिकायां काव्यलक्षणं निरूपितम्—‘‘आनन्दकोषस्योल्लासे लोकोत्तरविभावना।अलङ्कृतार्थसंवित्तिः कविता सर्वमङ्गला॥’’ इति।लक्षणेऽस्मिन् कवितापदं विशेष्यबोधकम्, एवञ्चात्र विशेषणबोधकपदत्रयं विद्यते- ‘लोकोत्तरविभावना’, ‘अलङ्कृतार्थसंवित्तिः’, ‘सर्वमङ्गला’ चेति। आनन्दकोषस्योल्लासे सति लोकोत्तरविभावना अलङ्कृतार्थसंवित्तिः कविता इत्युच्यते सा च कविता सर्वमङ्गला भवति। आनन्दकोषस्येति पदेन वेदान्तदर्शनप्रसिद्धानन्दमयकोषो निर्दिश्यते। कविः सामाजिकश्च अपूर्वकल्पनया यस्यामलौकिकीं प्रगल्भतामनुभवतः सा लोकोत्तरविभावनेत्युच्यते। मुख्यवाक्यमत्र तावत्— अलङ्कृतार्थसंवित्तिः कवितेति। अलङ्कृतश्चासौ अर्थश्च अलङ्कृतार्थः, अलङ्कृतार्थस्य संवित्तिः इति अलङ्कृतार्थसंवित्तिः, संवित्तिर्नाम ज्ञानम्। एवञ्च अलङ्कृतार्थस्य ज्ञानं कवितेति। सा चेयं कविता सर्वेषां मङ्गलं विदधाति निखिललोकानां कल्याणकारिणी भवति तस्मात्सर्वमङ्गला। Keywords: मनोहारिणौ, आनन्दकोषस्योल्लासे, लोकोत्तरविभावना, अलङ्कृतार्थसंवित्तिः, सर्वमङ्गला, कविता।