By prakashanjayanti@gmail.com / January 10, 2026 आधुनिकसाहित्यतत्त्वनिरूपणे हरिदाससिद्धान्तवागीश-राजेन्द्रमिश्रयोः मतविषये तुलनात्मकमेकम् अध्ययनम्ādhunikasāhityatattvanirūpaṇe haridāsasiddhāntavāgīśa-rājendramiśrayoḥ mataviṣaye tulanātmakamekam adhyayanamAuthor(s): Sumanta PatraResearch ScholarRamakrishna Mission VidyamandiraBelur Math, Howrah, West Bengal, IndiaE-mail: sumanta.patra.vvv@gmail.comPage no: 69-79Abstract: अस्मिन् शोधपत्रेऽस्माभिः हरिदाससिद्धान्तवागीशकृतस्य काव्यकौमुदीग्रन्थस्य च अभिराजराजेन्द्रमिश्रविरचितस्य अभिराजयशोभूषणग्रन्थस्य निर्दिष्टविषयाणां तुलनात्मकं समीक्षणं विहितमस्ति। तत्रादौ ग्रन्थकर्त्रोः, तयोरलङ्कारग्रन्थयोश्च सामान्यपरिचयः प्रदत्तः। ततोऽनुबन्धचतुष्टयम्, काव्यप्रयोजनम्, काव्यहेतुः, काव्यस्वरूपम्, काव्यभेद इत्यादयो विषया उपस्थापिताः। क्वचिद् हरिदासमहोदयस्य च राजेन्द्रमिश्रमहाभागस्य मतपार्थक्यम् अवलोक्यते। क्वचित् मतसाम्यमपि दरीदृश्यते। क्वचिच्च तयोः पूर्वाचार्यैः सह मतसाम्यमस्ति। अन्यत्र ताभ्याम् आधुनिकालङ्कारिकाभ्यां पूर्वाचार्याणां मतं समर्थितं, क्वचिच्च खण्डितम्। तत्सर्वमत्र समासेन सयुक्ति आलोचितम्। यथा काव्यप्रयोजनविषये यत्र मम्मटाचार्यादिभिर्यश-आदिप्रयोजनषट्कं निगद्यते तत्र हरिदासमहोदयेन केवलं ‘प्रयोजनम् आनन्दः काव्यस्य’ इत्युच्यते। राजेन्द्रमहाभागेन तु यश एव काव्यप्रयोजनमिति कथ्यते। काव्यभेदविषये हरिदासमहोदयेन पूर्वाचार्याणामेव मतं स्वीक्रियते परन्तु राजेन्द्रमिश्रमहाभागेन सहृदयास्वाद्य-कोविदास्वाद्य-लोकास्वाद्यभेदेन काव्यस्य त्रैविध्यमेवाङ्गीक्रियते। ताभ्याम् आचार्याभ्यां कथं काव्यप्रजोनादिविषयेषु पूर्वाचार्याणां मतानि नाङ्गीक्रियते तदपि समासेनास्माभिरुपस्थापितम्Keywords: काव्यकौमुदी, अभिराजयशोभूषणम्, काव्यप्रयोजनम्, काव्यलक्षणम्, काव्यभेदः।