3. श्रीपञ्चमीव्रतम् एकं समीक्षात्मकम् अध्ययनम्

Dr. Basudeb Das
PGT Sanskrit Teacher, Govt. of Bihar, Bihar, India
Email: basudebdas683@gmail.com

Abstract: “व्रियते इति व्रतम्” अर्थात् यस्य वरणम्, ग्रहणम्, अनुष्ठानमाचरणं वा क्रियते तत् व्रतमुच्यते। ‘व्रत’ शब्दस्य साधारणतः उपवास-नियम-संयम-संकल्प-धर्माचरणं-कर्तव्यकर्म-निषिद्धवस्तुवर्जनेत्यादयोबहवः अर्थाः सन्ति। ‘व्रत’ शब्दस्य निष्पत्तिः भ्वादि-स्वादि-क्र्यायादि-चुरादि-दिवादि गणेषु ‘वृ’ धातुना सह ‘अतच्’ प्रत्ययेन भवति। पाणिनिकृतः वार्तिकसूत्रे ‘व्रत’ शब्दः भोजनादीनां त्यागार्थे प्रदत्तोऽस्ति।“व्रताद् भोजनं तन्निवृत्योः।”1 अत्र भोजनत्यागार्थे ‘व्रत’ शब्देन णिच् भवति। यथा— पयः शूद्रान्नं वा व्रतयति। अर्थात् पयोव्रतादि नाम पयोभुङ्क्ते। शूद्रान्नं व्रतयति नाम निषिद्धान्नं त्यजति। सामान्यतो विचारे क्रियमाणे व्रतशब्दस्य ‘नियमः, पुण्यजनकमुपोषणादि, मधुमांसवर्जनादिनियमः, नियमसंग्रहणं, नियमपालनं, शास्त्रचोदितनियमाऽनुष्ठानम्’-इत्यादयः प्रतीतिविषयतामायान्त्यर्थाः। चतुर्षु वेदेषु व्रत शब्दः ऋग्वेदे सर्वाधिकवारं प्रयुक्तोऽस्ति। ऋग्वेदे प्रायः २२० वारं व्रतशब्दस्योल्लेखः वर्तते। यथा—“सुदानव आर्या व्रता विसृजन्तो अधि क्षमि।”2
श्रेष्ठदातारः देवताः भूलोके सर्वत्र विराजमानाः वर्तन्ते। तैः देवैः एव व्रतानां विस्तारः कृतोऽस्ति। अनेन मन्त्रेण प्रदीयते यत्— भूलोके व्रतादिकर्मणां विस्तारः देवैः कृतमस्ति। ऋग्वेदस्य पुरुषसूक्तेऽपि अस्मिन् विषये कथितम् यत्—“यज्ञेन यज्ञमयजन्त देवातानि धर्माणि प्रथमान्यासन्।”3
पूर्वे देवैः यज्ञेन यत् यज्ञं कृतं तस्मिन् काले ये विधयः याः पद्धतयश्चासन् ते विधयः एव मर्त्यलोके मनुष्याणां कृते धर्मरूपेण प्रचलिताः अभवन्। ऋग्वेदे व्रतस्य कर्मार्थकत्वं विवृतम्। भविष्यपुराणस्य ब्राह्मपर्वणि, उत्तरपर्वणि च विविधाः व्रताः तेषां माहात्म्यानि च वर्णितानि सन्ति। तेषु अन्यतममेव जन्माष्टमीव्रतः। व्रतस्यास्योल्लेखः बहुषु शास्त्रेषूपलभ्यते। मम शोधप्रबन्धे व्रतस्यास्य वर्णनं वर्तते।

Keywords: व्रतम्, भविष्यपुराणम्, श्रीपञ्चमी, तिथि, विधिः, माहात्म्यम्, चेति।

Scroll to Top