By prakashanjayanti@gmail.com / January 11, 2026 4. शिशुपालवधमहाकाव्यस्य प्रथमसर्गे रीति-प्रयोगचारुत्वम्Dr. Bholanath MondalDakshin Tangarberiya, Chhayani, Baruipur, South 24 Parganas, West Bengal, IndiaEmail: bholanathmondal@gmail.comAbstract: संस्कृतसाहित्ये महाकविना माघेन विरचितं विंशतिसर्गात्मकं शिशुपालवधम् एकं बहुप्रशंसितं तथा सर्वजनविदितं महाकाव्यम्। समग्रे काव्येऽस्मिन् कवेः रीतिप्रयोगे चातुर्यं लक्ष्यते। अत्र महाकाव्ये वैदर्भी, गौडी, पाञ्चाली चेति तिस्रः रीतयः महाकविना सन्निवेशिताः। एतासां रीतीनां प्रयोगेन पद्यप्रचयाः महच्चारुत्वम् आप्तवन्तः। अस्मिन् लघुशोधपत्रे शिशुपालवधस्य प्रथमसर्गं पुरस्कृत्य रीतिप्रयोगे माघस्य कीदृशं चातुर्यमस्ति, तथा रीतियुक्तानि सन्ति कथं पद्यानि चारुत्वपरकाष्ठां गतानि तदस्माभिः यथामति यथायुक्ति च समुपस्थापयितुं प्रचेष्ट्यते।Keywords: रीतिः, महाकाव्यम्, मार्गः, पदविन्यासः, पदसंघटना।