5. सीरदेवाचार्यदिशा “अङ्गवृत्तेः पुनरङ्गवृत्तावविधिर्निष्ठितस्य”, “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा” —इत्यनयोः परिभाषयोरेकं समीक्षणम्

Amit Kumar Sahoo
Research Scholar, Dept. of Sanskrit & Philosophy
RKMVERI, Belur Math, Howrah, West Bengal, India
Email: amitkumarsahoo.rkmvu.103@gmail.com

Abstract: भारतीयप्राचीनाचार्याणां सूक्ष्मचिन्तनस्य प्रतिकृतिरेवेदं व्याकरणशास्त्रम्। व्याकरणशास्त्रीयपरम्परा आदिकालतः प्रसिद्धा वर्त्तते। विद्वज्जगति सर्वतः परिपूर्णं प्रख्याततमं नानाविधशब्दान्वितमन्वर्थकमिदं पाणिनीयकं शास्त्रं ज्ञानविज्ञानोपेतेन प्रसिद्धिना च देदीप्यते सर्वत्र। सुवैज्ञानिकलक्षणान्वितानि व्याकरणसूत्राणि षड्धा विभक्तानि। तानि च संज्ञा, परिभाषा, विधिः, नियमः, अतिदेशः, अधिकारः इत्याख्यया प्रख्यातानि सन्ति। एतेषु अन्यतममं परिभाषासूत्रम्। यत्र अनियमो भवति तस्मिन्नेव अनियमे नियमं करोति परिभाषा। पाणिनीये तथा तदुत्तरवर्तिषु शब्दानुशासनेषूपलब्धेषु परिभाषापाठेषु ‘परिभाषा’ इति शब्दस्य प्रयोगः प्राप्यते, अस्य पदस्य निर्दुष्टं लक्षणं प्रतिपादनाय विद्वांसः पृथक् पृथक् लक्षणं कृतवन्तः। बहवो वैय्याकरणाः स्वस्वरीत्या शैल्या च परिभाषाया व्याख्यां चक्रुः। नागेशात्पूर्वमपि प्रायः पञ्चदशभिर्मुनिभिः परिभाषापाठः कृतः। तेषु व्याडिः प्राचीनतम इति विद्वांसोऽभिमन्वते। तेषु च परिभाषाकृत्सु अन्यतमः अपरः सीरदेवाचार्यः। तैः बृहत्परिभाषाख्यः परिभिषाग्रन्थो विलिलिखे। अस्मिन् शोधपत्रे मया तदुक्ताया “अङ्गवृत्तेः पुनरङ्गवृत्तावविधिर्निष्ठितस्य” “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा” इत्याख्ययोः परिभाषयोः समीक्षा कृता। समीक्षायामनयोर्विषये व्याडिपुरुषोत्तमदेवसीरदेवनागेशाचार्यादीनाम् आचार्याणां किं मतं, कश्च अभिप्रायः तेषां कुत्र मतपार्थक्यं कुत्र च साम्यम्, अनयोः परिभाषयोः किं ज्ञापकं तैस्तैराचार्यैः स्वीकृतं, कुत्र च परिभाषाया अनित्यत्वं स्वीकृतमित्यादयो विषयाः पर्यालोचिताः। 

Keywords: परिभाषा, परिभाषार्थः, परिभाषाज्ञापकम्, परिभाषाफलम्, समीक्षा
Scroll to Top