By prakashanjayanti@gmail.com / January 11, 2026 6. कैवल्योपनिषदोक्तदिशा आत्मतत्त्वविचारःSaranya C KResearch Scholar, Department of Vedanta,Sree Shankaracharya University of Sanskrit,Kalady, Ernakulam, Kerala, IndiaEmail: saranyack2014@gmail.comAbstract: विश्वे भारतीयदर्शनस्य महत्तमेषु योगदानेषु अन्यतमं भवति उपनिषद्। उपनिषद् पराविद्या इति पदेन व्यपदिश्यते। वेदान्तिभिः उपनिषद् इत्याख्यायते।उपनिषच्छब्दस्य रहस्यमर्थः,अध्यात्मविद्यारहस्यप्रतिपादकाः वेदभागाः उपनिषदःकथ्यन्ते। तासु महर्षयः आध्यात्मिक्या विद्यया गूढतमानां रहस्याणां विशदतयाविचारं कुर्वाणाः प्राप्यन्ते। भारतीयदर्शनसाहित्ये सन्ति त्रयः प्रस्थानग्रन्थाः। ते वेदान् अवलम्बमानाः मानवजीवनस्य चरमं लक्ष्यं तत्प्राप्तिसाधनञ्च उपदिशन्ति। भारतीयविचारशास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वादुपनिषदः प्रस्थानत्रय्यांप्रथमप्रस्थानत्वेन गृह्यन्ते। श्रीमद्भगवद्गीता द्वितीयं प्रस्थानमिति। गीतायाः द्वितीयप्रस्थानत्वम् तस्यामेव प्रकटितम् अस्ति। बादरायणव्यासप्रणीतं ब्रह्मसूत्रंतृतीयप्रस्थानमस्ति। ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः मुख्याः दशोपनिषदः भवन्ति। ब्रह्मतत्त्व प्रतिपादनं सर्वासु उपनिषत्सु विद्यते। तथैव शैवदर्शने अपि उपनिषदानां प्रमुखा भूमिका वर्तते।शैवदर्शनस्य मुख्यौ आधारभूत ग्रन्थौ उपनिषद्, वेदाश्च। मुख्याः चतुर्दशशैवोपनिषदाः वर्तन्ते। तासु उपनिषत्सु कैवल्योपनिषद् एका मुख्या उपनिषद्भवति। अस्याः कैवल्योपनिषदः महत्ता का, आत्मतत्त्वविचारः मोक्षः च कथंनिरूपयति इति अस्मिन् शोधपत्रे विश्लेषणात्मकरूपेण ज्ञातुं प्रयतते।Keywords: उपनिषद्, शैवोपनिषद्, कैवल्योपनिषद्, आत्मतत्त्वविचारः, मोक्षः।