By prakashanjayanti@gmail.com / January 11, 2026 7. हास्यरसविचारे जयदेव-श्रीकेशवमिश्रयोः अभिमतम्Satyen ShitResearch Scholar, Dept. of SanskritVidyasagar University, Midnapore, Paschim Medinipur, West Bengal, IndiaEmail: satyenshit22@gmail.comAbstract: संस्कृतसाहित्ये सर्वाधिकं जनप्रियम् अङ्गं हि रसतत्त्वम्। यस्य चर्चा सर्वैः आलङ्कारिकैः कृता। आलङ्कारिकाणां मध्ये रससंख्याविषये मतभेदो दृश्यते । यथा – कैश्चन अष्टौ रसाः, कैश्चन नव रसाः, कैश्चन दश रसाः इति मन्यन्ते। परन्तु सर्वे आलङ्कारिकाः हास्यरसविषये आलोचितवन्तः। मम शोधप्रबन्धे द्वौ आलङ्कारिकौ विद्येते। यथा- एको हि द्वादशशतकस्य आलङ्कारिको जयदेवाचार्यः। यस्य अलङ्कारग्रन्थस्तु चन्द्रालोकः। अपरस्तु षोडशशतकस्य आलङ्कारिकः श्रीकेशवमिश्रः। यस्य अलङ्कारग्रन्थो हि अलङ्कारशेखरः। अस्य रसस्य प्रयोजनीयता किं पीयूषवर्षश्रीजयदेवाचार्य-श्रीकेशवमिश्रयोः मतानुसारम्? अपि च कस्य मतम् अधिकग्रहणयोग्यमिति मम शोधकार्यस्य मुख्यो विषयः।Keywords: संस्कृतसाहित्यम्, सहृदयः, रसः, हास्यरसः, श्रीकेशवमिश्रः, जयदेवाचार्यः, स्थायिभावः, हासः, आलङ्कारिकः।