8. पैङ्गलोपनिषदि शङ्करदिशा केवलाद्वैतभावना- समीक्षणमेकम्

Imrul Kayesh
Ph.D Research Scholar
Raiganj University
Raiganj, West Bengal, India
Email: imrulkayesh3@gmail.com

Abstract: भारतीयज्ञानपरम्परा सर्वकाले सर्वदेशे सर्वजने विशेषमर्यादया समादृता दृश्यते। भारतीयज्ञानपरम्परायां चोपनिषदः सकलदर्शनशास्त्राणां दर्शनतत्त्वानामुपजीव्यत्वेन कल्पिताः भवन्ति। उपनिषदः धर्मस्य अर्थस्य कामस्य मोक्षस्य वा पुरुषार्थचतुष्टयस्य ज्ञानस्य च पराकाष्ठा इति वदन्ति। प्राचीनकालस्य ऋषीणां मुनीनामेका अनन्यासृष्टिः इयमुपनिषद्। उपनिषद्भावधारायां सत्यप्रेममङ्गलत्रयं समाहितं भवति। उपनिषत्सु सर्वत्र सत्यस्वरूपानन्दब्रह्मणः स्पर्शः अनुभूयते। अर्थात् वेदान्तदर्शने प्रतिपादितशङ्कराचार्यस्य जीवब्रह्मैक्यभावना उपनिषत्सु निहिता दृश्यते। वेदान्तदर्शनस्य एकमात्रं प्रधानतत्त्वन्तु ब्रह्मजीवयोः अभेदकल्पना इति। पैङ्गलोपनिषदि तद्भावना सरलभावेन आलोचितास्ति। केवलाद्वैतवादः अर्थात् केवलमद्वैतं न द्वैतमिति। ब्रह्मजीवयोः अभेदो हि केवलाद्वैतवादस्य मूलकथा। उपनिषत्साहित्ये बहुत्र ब्रह्मजीवयोः अभेदवर्णनास्ति। तत्तु संक्षेपेणात्र वर्णना करिष्यते। 

Keywords: उपनिषत्, गौणोपनिषत्, पैङ्गलोपनिषत्, जीवः, ब्रह्म, अद्वैतभावना
Scroll to Top