11. रहस्यामृतमहाकाव्यस्य परिचयः कथावस्तुविमर्शश्च

Avijit Mandal
Research Scholar, Department of Literature, 
National Sanskrit University, 
Tirupati, Andhra Pradesh
Vidyalaya Adhyapak, Department of Education
Bihar Public Service Commission, Bihar, India 
Email: avijitmandal2402@gmail.com

Abstract: अस्माकं पुण्यभूमिः भारतवर्षम्। महामनीषिणाम् ऋषीणाम् आदर्शभूतेयं भूमिर्भवति। अत्रानेके कवयः प्रादूर्भूताः, तेषां बहुमूल्यकृतिभिः सुसमृद्धं संस्कृतवाङ्मयमद्यावधि अनवरुद्धतया वर्धते। भारतस्य प्रत्येकमपि राज्यमेतैः सुकृतिभिः कविभिः सदा सुप्रतिष्ठितं शृङ्खलितं चावलोक्यते। अस्माकं देशे बहवः सुरवाणीसेवका: प्रादुर्भूय संस्कृतसाहित्यं सेवमानाः वर्तन्ते, किन्तु अद्यावधि तेषां महात्मनां जीवनवृत्तं यथायथं ज्ञातुं न शक्यते। रहस्यामृतकाव्यप्रणेतुस्तत्रभवतो श्रीबाणेश्वरविद्यालङ्कारभट्टाचार्य-महोदयस्य जीवनवृत्तमपि तथैव। सः कस्मिन् माहेन्द्रक्षणे जन्मालभत इति विशेषतया वक्तुं न शक्यते। तस्य नैकाः कृतयः सरस्वतीसभामण्डपे पुष्पमालासदृशाः विराजन्ते। 

Keywords: श्रीबाणेश्वरविद्यालङ्कारभट्टाचार्यः, शोभाकरवंशः, रहस्यामृतम्, श्रीपार्वत्युत्पत्तिः, शिवपार्वतीविवाहः, वाराणसीनिर्माणम्, वसन्तकालः

Scroll to Top