13. श्रीमद्भागवतोपन्यस्तं श्रौतं दार्शनिकतत्त्वम्

Dr. Ranu Ghosh
Research Assistant
School of Vedic Studies
Rabindra Bharati University, Kolkata, West Bengal, India
Email: ranunandini17@gmail.com

Abstract: निगमकल्पतरोर्गलितफलरूपतया विद्वदौषधकल्पस्य श्रीमद्भागवतमहापुराण-स्यैतिह्यकथनं नाम समुद्रे पाद्यादिदानमेवेति निखिलशास्त्रशास्त्रज्ञपरम्पराविदो विदुरेव विपश्चितः। निगमत्वं किमिति चेदुच्यते यद्यपि चत्वारो वेदाः साक्षान्निगमत्वेन परिकल्पितास्तथापि निगमशब्देनानेन वेदान्तःपातितया ये खलु दार्शनिकसम्प्रदाया ऐदानीन्तने काले विराजन्ते तेषामपि परामर्श इति निश्चप्रचं वक्तुं युज्यते। प्रमाणैकमूलतया वेदानामेवाधिकारिकत्वमुपररीकृत्य ये खलु दार्शनिका आस्तिकपदभाजो भवनेति ते तु न्याय-वैशेषिकाः, सांख्य-योगाः, पूर्वोत्तरमीमांसकसम्प्रदाया इत्यस्माभिर्ज्ञायते। इमे सर्व एव सम्प्रदायाः सामप्रदायिकाश्च श्रीमद्भागवतमहापुराणस्यातिगम्भीरत्वं, विततत्वं, दुरवगाहत्वम्, अनितरसाधारणत्वञ्चाभ्युपेयन्तो दरीदृश्यन्ते। एवममीषामेवास्तिकसम्प्रदायविदां ये खलु सिद्धान्ताः श्रीमद्भागवतमहापुराणे संयोजिताः, समालोचिताः, सम्पुष्टाश्चोपलभ्यन्ते तेषामेव सिद्धान्तानां काचनानुक्रमणिका समालोच्यमानेऽस्मिन्न् गवेषणासन्दर्भे विलसिता भवितेति।

Keywords: श्रीमद्भागवतम्, दार्शनिकतत्त्वम्, जीवब्रह्मणोरभिन्नत्वम्, उपनिषद्।

Scroll to Top