By prakashanjayanti@gmail.com / January 11, 2026 15. भासकृतिषु कविसमयाःDr. Dibyendu MondalAssistant TeacherKamalapur High School, Hooghly, West Bengal, IndiaEmail: dibyendumondal46@gmail.comAbstract: मम शोधप्रबन्धस्य विषयः कविसमयः। अलङ्कार-गुण-रीति-ध्वन्यादिवद् अयमपि अलङ्कारशास्त्रस्य चर्चितविषयः। नवमदशमेशवीयशतके जातेन राजशेखरेण तस्य काव्यमीमांसाग्रन्थे सर्वादौ कविसमयो विस्तरेणालोचितः। यद्यपि रामायण-महाभारत-गीर्णारशिलालेखे दिक्पथमागच्छति। परन्तु भामहदण्डिवामनादिप्राचीनालङ्कारिकैः विषयेऽस्मिन् मौनता समाश्रिता। राजशेखरः तस्य काव्यमीमांसायाः चतुर्दश-पञ्चदश-षोडशाध्याये अस्य लक्षणभेदोदाहरणानि आलोचितवान्। आलङ्कारिकेषु केवलं राजशेखरेणास्य लक्षणमुपस्थापितम्। राजशेखरमते कवयो यान् अशास्त्रीयान् तथा अलौकिकार्थान् काव्येषु परम्पराक्रमेण उपनिबध्नन्ति ते अर्था हि कविसमयः। परन्तु अत्र वक्तव्यं यत् भामहदण्डिवामनादयः प्राचीनालङ्कारिकाः अशास्त्रीयान् तथा अलौकिकार्थान् काव्यदोषत्वेन अङ्गीकुर्वन्ति। प्रबन्धेऽस्मिन् अस्माभिः कविसमयालोचनसमन्वितग्रन्थनामानि उल्लिखितानि। राजशेखरप्रदत्तं कविसमयलक्षणं स्पष्टीकृतम्। ततः अस्य भेदविषये आलङ्कारिकाणां वैमत्यमुपस्थाप्य स्वीयमतमुपस्थापितम्। नाट्यकारेषु प्राचीनतमः आसीत् भासः। तस्य कृतिषु अलङ्काररीतिनाट्यसन्धिप्रभृतिभिः सह कविसमयाः अपि दरीदृश्यन्ते। प्रबन्धेऽस्मिन् अस्माभिः तस्य दृश्यकाव्याभ्यां केचन कविसमयाः समुद्धृत्य तेषां वैशिष्टं पर्यालोचितं, तेषां प्रयोगकारणमपि निरूपितम्।Keywords: समयः, अशास्त्रीयम्, अलौकिकम्, दोषः।