By prakashanjayanti@gmail.com / January 11, 2026 17. भामहाचार्यकृतकाव्यालङ्कारसन्दर्भे न्यायतत्त्वचिन्तनम्Tapas PalResearch ScholarDepartment of SanskritUniversity of Delhi, New Delhi, IndiaEmail: tapaspal735@gmail.comAbstract: अयं शोधप्रबन्धः भामहाचार्यस्य ‘काव्यालङ्कार’ ग्रन्थं केन्द्रं कृत्वा न्यायशास्त्रस्य तत्त्वानां विश्लेषणं करोति। यद्यपि ‘काव्यालङ्कारः’ काव्यशास्त्रस्य ग्रन्थः, तथापि तस्य पञ्चमे परिच्छेदे ‘न्यायनिर्णयः’ इति नाम्ना दर्शनशास्त्रस्य, विशेषतः न्यायशास्त्रस्य प्रमाणविषयस्य सन्निवेशः कृतोऽस्ति। आचार्यभामहेन अल्पबुद्धिजनानां कृते शास्त्रस्य दुर्बोधविषयं काव्यस्य माधुर्येण सरलेन च प्रकारेण बोधगम्यं कर्तुम् एषः न्यायतत्त्वसङ्ग्रहः कृतः। भामहः प्रत्यक्षम् अनुमानञ्च इति द्विविधं प्रमाणं स्वीकरोति। प्रमाणप्रसङ्गे आचार्यः बौद्धनैयायिकानां “प्रत्यक्षं कल्पनापोढम्” इति लक्षणं युक्तिभिः खण्डयति। तेन प्रतिपाद्यते यत् नाम-जाति-आदि-उपाधियुक्तं वस्तु एव प्रत्यक्षस्य विषयो भवति, उपाधिविहीनं केवलं व्यक्तिमात्रं न। भामहस्य मते ‘सदर्थालम्बनं च तत्’। अनुमानप्रमाणस्य विषये सः त्रिरूपाल्लिङ्गतः ज्ञानम् अनुमानं मन्यते, तथा च परार्थानुमानस्य पञ्चावयववाक्येषु प्रतिज्ञा-हेतु-उदाहरणानि एव स्वीकरोति। एतस्मिन् परिच्छेदे प्रतिज्ञादोषेषु तदर्थविरोधिनी-दोषः, तथा हेत्वाभासस्य लक्षणमपि उदाहृतमस्ति। अनेन प्रकारेण भामहाचार्यः स्वग्रन्थे न्यायतत्त्वानां समावेशेन अलङ्कारसम्प्रदायस्य प्रतिष्ठापकः सन् अपि स्वस्य विद्वत्तां तथा शास्त्रपारङ्गततां दर्शयति।Keywords: भामहाचार्यः, काव्यालङ्कारः, न्यायतत्त्वानि, प्रत्यक्षम्, अनुमानम्, हेतुः, हेत्वाभासः।