By prakashanjayanti@gmail.com / January 11, 2026 18. भारतीयपरम्परायां शैक्षिकसंस्काराणां सांस्कृतिक-नैतिकमूल्यानिSourav MandalPh.D. Research Scholar, Dept. of SanskritGauhati University, Guwahati, Assam, IndiaEmail: souravman732216@gmail.com Abstract: भारतीयपरम्परायां भारतीयसंस्कृतेः शिक्षा न केवलं ज्ञानस्य वहनं करोति, अपितु जीवनमूल्यानां स्थापनायामपि विशेषं सहायकत्वं वहति। अस्यां परम्परायां शैक्षिकसंस्काराः तु एतेषां सांस्कृतिक-नैतिकमूल्यानां संवर्धनस्य हेतो मूलाधाररूपेण वर्तमानाः सन्ति। बाल्यकालादारभ्य एते संस्काराः विद्यार्थिनां कृते व्यक्तित्वविकासम्, चारित्रसमृद्धिं च सुदृढं कुर्वन्ति। गुरुशिष्यपरम्परा, शिष्टाचारपालनम्, राष्ट्रभक्तिः, स्वसंस्कृतेः जिज्ञासा, सांस्कृतिकमूल्यानि च शैक्षिकसंस्कारैः सम्यक् अवगम्यन्ते। एवं सत्यनिष्ठा, कर्तव्यपरायणता, अहिंसा, आत्मनिग्रहश्च इत्यादीनि नैतिकमूल्यानि छात्राणां जीवनमूल्यरूपेण स्थाप्यन्ते। गुरुकुलपद्धतेः प्राचीनकालादारभ्य आधुनिकशिक्षायामपि एषां संस्काराणां प्रासङ्गिकता शाश्वतम् विद्यमाना अस्ति। यद्यपि आधुनिकी शिक्षापद्धतिः पाश्चात्यदृष्टेः प्रभावेण किंचित् विचलिता दृश्यते, तथापि मूल्यपरम्परायाः संवर्धनार्थं शैक्षिकसंस्काराणां पुनः स्थापनं अत्यावश्यकमिति मन्यते। एषः शोधप्रबन्धः एतेषां शैक्षिकसंस्काराणां सांस्कृतिक-नैतिकमूल्यानां विश्लेषणम्, ऐतिहासिकविकासं च प्रस्तौति। यः आधुनिकशिक्षायां प्राचीनभारतीयमूल्यानां समन्वयं साधयितुं प्रेरणां यच्छति। Keywords: गुरुकुलपद्धतिः, शैक्षिकसंस्काराः, सांस्कृतिकमूल्यानि, नैतिकमूल्यानि, भारतीयपरम्परा, आधुनिकशिक्षा।