धर्ममीमांसायां मनोविज्ञानस्य तात्त्विकविवेचनम्
 
Atul Kumar Shukla
Research Scholar, Dept. of Vaidic Darshan
Banaras Hindu University, Varanasi, Uttar Pradesh, India
Email: shukla.atul.kumar.1995@gmail.com
 
Abstract: पूर्वमीमांसादर्शनं वेदविहितकर्मप्रामाण्यं, धर्मस्वरूपं, तथा मानवकृतक्रियाणां फलविधानं प्रतिपादयन् भारतीयदर्शनपरम्परायां विशिष्टं स्थानं धारयति। धर्ममीमांसायां मानवकर्मणां प्रयोजननिर्णयः केवलं विधिनिषेधमूलकविचारः न, अपि तु अन्तःकरणवृत्तीनां भूमिका, मनसः ग्रहणशक्तिः, निर्णय-शक्तिः, चेष्टाप्रवर्तक-स्वभावश्च अपि अत्यन्तं महत्त्वपूर्णः। न्यायादिदर्शनैः मनोविज्ञानं पृथक् प्रकारेण निरूपितं, परन्तु भट्टपूर्वमीमांसकेषु मनः परममहत्परिमाणकं, स्वतन्त्रेन्द्रियम्, कर्मविधानस्य मूलाधारभूतं च कथ्यते। धर्ममीमांसायां मनसः अन्तःकरणत्वं, तदीयः साक्षात्कारयोग्यत्वविचारः, ज्ञानोत्पत्तौ तस्य कर्तृत्वाङ्गीकरणं च विशेषरीत्या लक्ष्यते। प्रस्तुतशोधपत्रे मीमांसकदृष्ट्या मनसः स्वरूपं, बाह्यमन्तःकरणभेदः, मनसः नित्यत्वानित्यत्वविचारः, मनसः इन्द्रियसामर्थ्यसम्बन्धः, तथा धर्मकर्मप्रवृत्तौ मनसः निर्णायकभूमिका इत्येते विषयाः सर्वे तात्त्विकदृष्ट्या समीक्षारूपेण प्रस्तुताः। अनेन धर्ममीमांसाया कर्मदृष्टिकेन्द्रता अपि मनसः तत्त्वज्ञानस्य अपेक्षया कथं संविद्यमाना इति स्पष्टं भवति।

Keywords: धर्ममीमांसा, मनः, सूक्ष्मतत्त्वम्, अन्तःप्रेरकः, अदृष्टकारणम्, अपरोक्षवृत्तिः, तत्त्वाभासः।

Scroll to Top