By prakashanjayanti@gmail.com / January 12, 2026 प्रवीणानां सामाजिकैकाकित्वनिवारणाय योगचर्चायाः प्रभावः — दार्शनिकचिन्तनात्मकमेकमध्ययनम् Sangita BagResearch ScholarCentral Sanskrit UniversityJanakpuri, New Delhi, Delhi, IndiaEmail: sangitabag8@gmail.com Abstract: जनस्वास्थ्यसमस्यास्वद्यतनीयासु प्रवीणानां सामाजिकैकाकित्वमेकमन्यतममस्ति। शारीरिकाक्षमत्वम्,परिवारवियोजनत्वम्, वृत्तिनिवृत्त्यनन्तरमितिकर्तव्यताक्षयत्वम्, मनोवृत्त्यन्तरत्वञ्च समाजाद्दूरे नयन्ति प्रवीणान्। तत्र शारीरिकमानसिकाध्यात्मिकाभ्यासानां समन्वितो रूपो योग एवैकाकीत्वं प्रशमयितुमग्रणी भवति, विच्छिन्नतां दूरीकरोति च। नियमेन योगाभ्यासः प्रवीणानां मानसिकस्थिरतामानयति, चिन्तावसादे न्यूनीकरोति, शरीरस्य सक्रियतामानयति, रोगप्रतिरोधकोर्जाञ्चापि प्रयच्छति। विशेषतः समूहाधारितयोगसत्रेषु सामाजिकमिथष्क्रिया वृद्धिं प्राप्नोति, यत्र प्रवीणाः परस्परेण वार्ताविनिमयावकाशं प्राप्नुवन्ति, अनुभवभागिनो भवन्ति, सहजतया नूतनसंबन्धनिर्माणे च सक्षमा भवन्ति। समेनैव श्वासप्रश्वासध्यानासनप्रक्रियानां नियताभ्यासेन आत्मसचेतनताज्ञानं लभन्ते ते, आत्मविश्वासत्वमङ्गीकुर्वन्ति, येन सामाजिकसम्बद्धे आदरस्य वर्धनं भूयांशो दृश्यते। योगो न केवलं शरीरिकस्य स्वास्थ्यस्योन्नतिहेतुरपि तु, प्रवीणानां सामाजिकबन्धनस्य नूतनतया पुनरुत्थाने मानवीयबन्धने चोपकारको भवति।Keywords: प्रवीणः, योगदर्शनम्, दार्शनिकचिन्तनम्, ध्यानम्, प्राणायामः, सामाजिकसंयोगः, मानसिकस्वास्थ्यम्, समुदाययोगः, आत्मोपलब्धिः, ऐक्यभावना, योगचिकित्सा, सामाजिकैकाकीत्वम्।