वेदान्तसिद्धान्तदिशा इन्द्रियाणां देवताधिष्ठातृत्वविचारः – एका ब्रह्मसूत्रानुसारिणी समीक्षा
 
Debjyoti Kundu
Assistant Professor (Guest), Dept. of Sanskrit,
Nava Nalanda Mahavihara (Deemed University),
Ministry of Culture, Govt. of India, Nalanda, Bihar, India.
Email: debjyotikundu26@gmail.com
 
Abstract: भगवता बादरायणव्यासेन ब्रह्मसूत्रं विरचितम्। वेदान्तशास्त्रस्य प्रमुखग्रन्थत्वेन ब्रह्मसूत्रं परिचयं लभते। ब्रह्मसूत्रैः अद्वैतवेदान्तशास्त्रस्य मतानि श्रुतियुक्त्यादिभिः सम्यक् सन्ति प्रतिपादितानि। पूर्वपक्षिणां विविधशङ्कानिवारणपुरःसरं भगवता शङ्कराचार्येणापि ब्रह्मसूत्रोपरि रचितभाष्येण वेदान्तमतं सुदृढीकृतम्। वस्तुतः सूत्रैरेतैः ब्रह्मस्वरूपं प्रतिपादितम्। सांख्यादयः पूर्वपक्षिणः ब्रह्म नाङ्गीकुर्वन्ति। अतस्तेषां नये ब्रह्मणः जगत्कारणत्वं न कथमपि सिध्यति। अत एव भगवान् श्रीशङ्कराचार्यः तद्रचितभाष्येण तेषां मतानि खण्डयित्वा श्रुतिप्रमाणैः वेदान्तमतानि अलङ्कृत्य प्रतिष्ठापयामास। एवं ब्रह्मसूत्रे पूर्वपक्षिणां पुनः पुनः शङ्कानिरवारणपुरःसरं श्रुतियुक्त्यादिभिः सिद्धान्तिमतानुसारं ब्रह्मणः जगत्कारणत्वं सम्यक् प्रतिपादितम्।
ब्रह्मसूत्रस्य द्वितीयाध्यायस्य चतुर्थपादस्य सप्तममधिकरणमस्ति ज्योतिराद्यधिकरणमिति। अत्र सूत्रत्रयं विद्यते। इन्द्रियाणि देवताभिः प्रेरितानि भूत्वा एव विषयं प्रति गच्छन्ति इति प्रतिपादनमत्र दृश्यते। तत्र जीवात्मा एव भोक्ता भवति, न तु देवता। एष एव विषयः शङ्कासमाधानपुरःसरं भाष्यकारेण प्रतिपादितमस्ति। द्वितीयाध्यायस्य तृतीयपादे भूतभोक्तृश्रुतिविरोधः परिहृतः। चतुर्थपादे कर्तुः जीवस्य उपकरणानाम् इन्द्रियाणाम् उत्पत्तिरस्ति वा न वेति विचारोऽस्ति। एवं ज्योतिराद्यधिकरणे प्राणानां देवताधिष्ठितत्वं प्रतिपाद्यते। इन्द्रियाणि विषयदेशं प्रति तु गच्छन्ति, परन्तु तत्र काचित् प्रक्रियाऽपि वेदान्तशास्त्रे विराजते। को हि विषयं प्रति इन्द्रियाणि प्रेरयति देवो वा जीवो वेत्यस्मिन् विषये विद्वत्सम्प्रदाये विशिष्टो विचारो भवति। पूर्वपक्षिणस्तु जीवानामेव प्रेरकत्वं साधयितुं प्रवर्तन्ते। परन्तु देवानामेव तदधिष्ठातृत्वात् तत्प्रेरकत्वं भवतीति सिद्धान्तः। एतेषामेव तत्त्वानां प्रतिपादनं शोधपत्रेऽस्मिन् विस्तरेण कृतं विद्यते। अत्र विविधानाम् इन्द्रियाणां कार्याणि, तेषामधिष्ठातृदेवताः, विषयान् प्रति इन्द्रियाणां गमनप्रक्रिया, तथा च तेषां प्रेरकत्वविषये च चर्चाः विराजन्ते। वेदान्तसिद्धान्तानुसारम् इन्द्रियविषयकविचारान् प्रतिपाद्य ब्रह्मसूत्रस्थस्य ज्योतिराद्यधिकरणस्थविचाराः उपस्थापिताः।

Keywords: वेदान्तः, ब्रह्मसूत्रम्, शाङ्करभाष्यम्, इन्द्रियाणि, देवताः, जीवः, भोक्ता, विषयाः।

Scroll to Top