By prakashanjayanti@gmail.com / January 12, 2026 सङ्गणककृत्रिमबुद्धिप्रविधिषु पाणिनितत्त्वानुप्रयोगः Om Prakash DasPh.D. Research ScholarDepartment of Vyakaran (P.G.)Shree Jagannath Sanskrit UniversityShree Vihar, Puri, Odisha, IndiaEmail: omprakashdas20@gmail.com भाषां सङ्गणकस्थपद्धतिपथे यन्त्रश्रितां साधिकांविज्ञाने प्रविधौ च कृत्रिममतौ कूटप्रयोगे पुनः।धृत्वा सर्वनयस्तुतां स भगवान् शब्दार्थतत्त्वप्रदोबाभ्राष्टीह समस्तविज्ञविनुतो वैज्ञानिकः पाणिनिः।। (स्वरचितम्) Abstract: यथा लोके विज्ञानविस्तृतेन नित्यं नुतनाः प्रवृत्तयः सम्पद्यन्ते, तथा तेषु कृत्रिमबुद्धिनामा (Artificial Intelligence) प्रविधिविशेषः संगणकतन्त्रसहितोऽद्यतनयुगे विश्वमानवजीवनस्य सर्वाङ्गेऽन्तवर्तित एव। भाषाप्रक्रियायाः (Natural Language Processing) नाम कृत्रिमबुद्धेः प्रमुखशाखायां, वाक्यविश्लेषणं, रूपनिर्माणं, यन्त्रानुवादः, ध्वनिपरिचयः, पाठसङ्ग्रहणम् इत्यादीनां कार्याणां संसाधनाय, एकस्मिन् सुव्यवस्थिते भाषानियमनतन्त्रेऽपेक्षत्वं संवर्तते। संस्कृतभाषा, प्राचीनतमविज्ञानपरम्परायाः धारिणी, तत्र पाणिनिप्रणीतम् अष्टाध्यायी-नामा व्याकरणमहाग्रन्थः, सूत्रलाघव-तार्किकसंरचना-व्यवस्थितसूत्रक्रमादिभिर्विश्वेऽस्मिन्नद्वितीयः। पाणिनीयव्याकरणं लघुत्वसूत्रसंयोजने परिपूर्णम् अस्ति, तथैव सङ्गणकीय-अल्गोरिद्मनिर्माणेऽपि प्रयोज्यमेव। अल्पाक्षरम्-असन्दिग्धम् इति सूत्रकारस्य नीतिरेव न्यूनतम-संकेतैरधिकतमवर्णनस्य सामर्थ्यं सन्दर्शयते, यत् संगणक-प्रोग्रामिंग-भाषासु प्रत्यक्षत्वेनाऽवधार्यते।अस्य शोधपत्रस्य प्रमुखलक्ष्यम्— पाणिनीयतत्त्वानाम् आधुनिकार्थे कृत्रिमबुद्धिप्रविधिषु, विशेषतो भाषा-प्रक्रियायां, अनुप्रयोगस्य मार्गाणां विशद्विमर्शः। अत्र सूत्रप्रणाली, धातुपाठ-गणपाठविन्यासः, कारकसिद्धान्तः, समासविधानम्, सन्धिनियमाश्च, Finite State Automata, Context-Free Grammar, Rule-based Modelling, Machine Learning इत्यादिषु प्रविधिषु कथं यथासम्भवम् अन्वयीभवितव्या इति विश्लेष्यते। अनुसन्धानपरिणामद्वयं विशेषत्वेन निर्दिश्यते— (१) पाणिनीयनियमाधारिताः सङ्गणकीय-अल्गोरिद्मतत्त्वानि बहुभाषाप्रक्रियायामधिकशुद्धतारूपं, कार्यकुशलत्वरूपञ्च प्रददाति। (२) संस्कृतभाषाया वैज्ञानिकसंरचना, सूत्रलाघवप्रणाली च, आधुनिककृत्रिमबुद्धिप्रविधिषु अन्वितत्वेन, भारतीय-ज्ञानपरम्पराया वैश्विकपुनर्मूल्याङ्कनाय मार्गं प्रशस्तीचर्करीति। अतोऽयं शोधः केवलं ऐतिहासिकव्याकरणानुसन्धानपर्यन्तं न स्यात्, अपि तु परम्परा-नवीनप्रवर्तनयोः सङ्गमबिन्दुरूपेण, प्राचीन-व्याकरण-तर्कस्य अद्यतन-सङ्गणकीयविज्ञानसङ्गतेश्च, अभिनवम् अद्वितीयञ्च योगदानं करिष्यति। दीर्घदृष्ट्या, विशेषतो भारतीयभाषासु, पाणिनीयव्याकरणाधारित-कृत्रिमबुद्धिप्रविधय आदर्शस्वरूपेण स्वीकर्तुं शक्या इति निश्चिन्तं परिचीयते।Keywords: पाणिनीयव्याकरणम्, कृत्रिमबुद्धिः, सङ्गणकतन्त्रज्ञानम्, सङ्गणकं, यन्त्रानुवादः, रूपनिर्माणं, रूपविश्लेषणं, भाषाविज्ञानम्।