By prakashanjayanti@gmail.com / January 2, 2026 आनन्दवर्धनमतानुसारेण वस्तुध्वनिविषयकसंक्षिप्तवर्णनम् ānandavardhanamatānusāreṇa vastudhvaniviṣayakasaṃkṣiptavarṇanam Author(s): Dr. Manteswar BarmanAssistant Professor of SanskritUniversity B.T. and Evening College,Keshab Road, Gunjabari, Cooch BeharEmail: barmanmanteswar@gmail.comPage no: 21-29Abstract: संस्कृतकाव्यशास्त्रे बहुचर्चितविषयाणां मध्ये ध्वनिप्रसङ्गः समधिकः प्रसिद्धः वर्त्तते। आनन्दवर्धनः ध्वनिसिद्धान्तस्य प्रथमाचार्यः इति प्रसिद्धिः वर्त्तते। ध्वनिमार्गसंस्थापकः प्रथमः ग्रन्थः आनन्दवर्धनविरचितः ध्वन्यालोकोऽस्ति। अनेन ध्वन्यालोकग्रन्थेन आनन्दवर्धनः ध्वनिसिद्धान्तं स्थापयति। ध्वनिः काव्यस्य आत्मा भवति। ध्वनिविषये आनन्दवर्धनः कथयति यत् नायं सिद्धान्तः तन्मस्तिष्कप्रसूतः। अपि तु अयं सिद्धान्तः पण्डितैः पूर्वमेव आन्मातः आसीत्। आनन्दवर्धनाचार्यः अभाववादः, भाक्तवादः अनिर्वचनीयत्ववादश्च इति ध्वनिविरोधिनां मतानि यथायथं समालोच्य ध्वनेः स्वरूपं भेदोपभेदान् च प्रतिपाद्य ध्वनेः काव्यात्मत्वं व्यवस्थापयति। ध्वनिः इति पदस्य अर्थः तन्मतेन प्रतीयमानार्थः व्यङ्ग्यार्थः वा। स प्रतीयमानार्थः वाच्यार्थसामर्थ्येन आक्षिप्तो भूत्वा काव्ये वस्तुध्वनिम्, अलंकारध्वनिं, रसध्वनिं च समुत्पादयति। अतएव वस्तुध्वनिः, अलंकारध्वनिः, रसध्वनिः इति त्रिप्रकारेषु ध्वनिषु साधारणलक्षणरूपेण यद् वैशिष्ट्यं सर्वदा तिष्ठति तदस्ति वाच्यसामर्थ्याक्षिप्तत्वम्। आनन्दवर्धनः सूचयति यत् महाकवीनां वाणीषु वाच्यार्थात् भिन्नः प्रतीयमानार्थः इति अपरमेकं वस्तु वर्त्तते। स प्रतीयमानार्थः महाकवीनां वाणीषु अङ्गनादेहगतलावण्यमिव प्रतिभाति। प्रसङ्गेऽस्मिन् आनन्दवर्धनेन उच्यते यत् ललनालावण्यतुल्यः प्रतीयमानार्थः ध्वनिः भवति। यद्यपि आलंकारिकेषु आनन्दवर्धनाचार्यः ध्वनिसम्प्रदायस्य प्रथमः आचार्यः, तथा च तदीयः ध्वन्यालोकग्रन्थः ध्वनिसिद्धान्तस्य प्रथमः ग्रन्थः, तथापि आनन्दवर्धनाचार्यः ध्वनिलक्षणनिरूपणप्रसङ्गे वैयाकरणानां स्फोटसिद्धान्तम् अनुसरति। आनन्दवर्धनः तदीये ग्रन्थे विधिनिषेधरूपात्मकं बहुप्रकारकं वस्तुध्वनिं प्रतिपादयति। अनेन वस्तुध्वनेः काव्ये गुरुत्वं संसूचितमस्ति। काव्ये वस्तुध्वनेः उपस्थितिः चारुत्वाधिक्यं प्रकाशयति इति पूर्वमेव उक्तमस्ति। Keywords: ध्वनिः, आनन्दवर्धनः, वस्तुध्वनिः, काव्यस्य, आत्मा, ध्वन्यालोकः, वाच्यार्थः, व्यङ्ग्यार्थः।