भारतहृदयारविन्दनाटकप्रतिपादितं श्रीलारविन्दस्य मुक्तिचिन्तनम्
Bhāratahṛdayāravindanāṭakapratipādita ṃśrīlāravindasya mukticintanam

Author(s): Totan Bhowmik
SACT-I, Department of Sanskrit
Sitananda College, Nandigram
Purba Medinipur, West Bengal, India.
Emali: bhowmiktotan@gmail.com
Page no: 36-41 

Abstract: आधुनिकसंस्कृतसाहित्याकाशे ये खलु नाट्यकाराः आसन्, तेष्वन्यतमः डॉ यतीन्द्रविमलचौधुरीमहोदयः। तेन बहूनि नाटकानि विरचितानि, तेषु अन्यतमं भारतहृदयारविन्दमिति नाटकम्। नाटकस्यास्य नायकः भारतवर्षस्य योगिश्रेष्ठः योगीश्वरः भारतगुरुः श्रीलारविन्दः। भारतवर्षस्य स्वातन्त्र्यान्दोलनम् अधिकृत्य नाटकमिदं विरचितम्। आङ्ग्लशासकानाम् नितरां निपीडनादत्याचाराच्च भारतमातुरश्रुमलिनवदनं सस्मितं कर्तुं सर्वे विप्लविनः आत्मवलिदाने सयत्नाः उन्मुखाश्च आसन्। परन्तु विनावयवविनाशनेन रक्तक्षयं न कृत्वा केनोपायेन कथं वा देशमातृकायाः समुद्धरणं सम्भविष्यतीति विषये अरविन्दः सर्वदा चिन्तयति स्म। तेन शरीरचर्चायोगसाधनादिसाधनेन संग्रामस्य शुभसूचना कृता। ज्ञानं कर्म भक्तिश्चेति मार्गत्रयस्य समन्वयेन अभिनवमार्गं विनिर्माय तदनुसारेण नवीनं भारतवर्षं परिचालयितुमिच्छति सः। जीवानां पारस्परिको भेदो न पारमार्थिकः, जीवेषु एव परमेश्वरस्यांशो निवसति, जीवसेवा हि ईश्वरसवा। सर्वे जनाः प्राणिनः च ईश्वरस्य एव सन्तानाः। तस्य योगसाधनोपायाः भारतीयपरम्परानुसारिणः प्राचीनशास्त्रानुसारिणः चासन्। तन्मते धर्ममार्ग एव जीवानां जीवनस्य शास्वतपन्थाः। तेनैव मार्गेण मुक्तिः भारतस्य स्वातन्त्र्यं च सम्भवति। तस्मात् तेनोक्तं यत्— देशसमुद्धरणमस्माकं व्रतम्, व्रतकर्मणि पवित्रमेव सर्वं कार्यमनुस्रियेत्। निष्कारणराजपुरुषवधस्य किमपि प्रयोजनं नास्ति।
“The Upanishads are epic hyms of self-knowledge and world knowledge and God knowledge” इति आसीत् अरविन्दस्य मतम्। तस्य अनुभवेन दृष्ट्या च उपनिषदां ज्ञानं न बुद्धिगता, काचित् प्रतिपत्तिः अपि तु साक्षात् उपलब्ध्यात्मकं ज्ञानम्, यत्र ज्ञातृज्ञातज्ञानेषु भेदभावो विनश्यति। आध्यात्मिकतावलेन भारतवर्षस्य नेतृपदमलभत। तदा सर्वे विश्ववासिनः अस्माकं भारतवर्षेभ्यः जीवनशिक्षां धर्मशिक्षां च प्राप्स्यन्ति। जगति अस्माकं देशमातृका चिराय उच्चासनम् लभेत। तेन प्रजानां मुक्तिश्च सम्भवेत्। अत एव अरविन्देनोच्यते- “कृपालुर्भगवान् सर्वेषामभिलाषं पुरयिष्यतीति ध्रुवमेव।” एवमेव रीत्या समग्रेऽस्मिन् प्रबन्धे यतीन्द्रविमलचौधुरीविरचिते भारतहृदयारविन्दनाटके अभिव्यञ्जितमृषेरविन्दस्य मुक्तिचिन्तनम् यथामति मन्त्रयिष्यन्ते।
Keywords: भारतहृदयारविन्दम्, मुक्तिः, श्रीलारविन्दः, मोक्षः, भक्तिः।
Scroll to Top