सामाजिकजीवने लौकिकन्यायस्य उपयोगिता
Sāmājikajīvane laukikanyāyasya upayogitā

Author(s): Dilip Tapadar
Research Scholar, Dept. of Sanskrit-Pali-Prakit
Visva Bharati University, Bolpur, West Bengal, India
Email: diliptapadar343@gmail.com
Page no: 68-76 

Abstract: वैदिकयुगात् आरभ्य, स्मृतिपुराणेषु, उपनिषत्सु, काव्येषु, न्यायमीमांसादिदर्शनेषु च लौकिकन्यायाः विशेषतोऽवलोक्यन्ते। ‘नि’ उपसर्गपूर्वकं ‘इ’ धातोः ‘घञ्’ प्रत्ययेन ‘न्याय’ इत्यस्य शब्दस्य निर्माणं भवति, यस्य अर्थः समता, तुल्यता, उपयुक्तदृष्टान्तः नीतिवचनं च। लौकिकजीवने च शास्त्रेषु च कस्यचित् घटनायाः विशेषस्थितेः वा संक्षिप्तसाररूपेण वाक्यरूपेण लौकिकन्यायस्य प्रयोगः क्रियते। लौकिकन्यायैः अल्पशब्दैः युक्तियुक्तरूपेण विचारः व्यक्तुं सुलभः भवति। लौकिकन्यायः इत्यस्य अर्थः— सामान्यजीवने उत्पन्नाः परिस्थितयः, अनुभवानुभूतयः वा, येषां आधारतः दृष्टान्तरूपेण न्यायविधानं क्रियते। एते न्यायाः न केवलं शास्त्रीयचर्चायामुपयुक्ताः, अपि तु सामान्यजीवनवर्तिनामपि जिज्ञासूनां कृते अपूर्वं प्रबोधनं वहन्ति। स्ववाक्यस्य संक्षेपेण यथार्थरूपेण प्रस्तुतीकरणाय ये दृष्टान्ताः प्रयुज्यन्ते, वा ये दृष्टान्ताः शास्त्रेषु प्रयुज्यन्ते, ते एव न्यायाः। अधुना विविधेषु पुस्तकेषु चित्राणि मुद्र्यन्ते यथा अदृश्यानि श्रवणातीतानि ज्ञेयविषयाः जिज्ञासुभ्यः बोधगम्याः क्रियन्ते, तथा एते दृष्टान्तमूलका न्यायाः अपि कठिनं च अदृश्यं च ज्ञेयवस्तु सहजबोध्यं कर्तुं प्रयुज्यन्ते। वक्तारः, आचार्याः, उपदेशकाः च यदा श्रोतृजनानां समीपे कठिनं वा नूतनं विषयं सुलभतया व्याख्यातुं इच्छन्ति, तदा ते एतेषां लौकिकन्यायानां प्रयोगं कुर्वन्ति। एते लौकिकन्यायाः तु न केवलं शिक्षायां, उपदेशे वा, किन्तु दैनिकजीवने, नीतिनिर्णये, सामाजिकसंवादे च सर्वत्र सप्रयोजनं दृश्यन्ते। 
Keywords: लौकिकः, सिंहावलोकनन्यायः, पङ्कप्रक्षालनन्यायः, दग्धबीजकल्पन्यायः, शतपत्रभेदन्यायः। 

Scroll to Top