By prakashanjayanti@gmail.com / January 10, 2026 सांख्ययोगन्यायवैशेषिकदर्शनदिशा सुखस्य तुलनात्मकम् अध्ययनम्Sāṃkhyayoganyāyavaiśeṣikadarśanadiśā sukhasya tulanātmakam adhyayanamAuthor(s): Purna Chandra MondalResearch ScholarVisva Bharati UniversitySantiniketan, West Bengal, IndiaEmail: purnachandra553@gmai.comPage no: 85-90 Abstract: भारतीयषड्विधास्तिकदर्शनेषु सांख्यदर्शनं योगदर्शनञ्च अतिप्राचीने अन्यतमे च दर्शने। सांख्ययोगदर्शनयो: मौलिकतत्त्वे पुरुष: प्रकृतिश्च। सांख्ययोगदर्शनानुसारं सत्त्वरजस्तमसां साम्यावस्था प्रकृति:। त्रिविधगुणेषु सत्त्वगुण: प्रीत्यात्मक: अर्थात् सुखस्वरूपं, रजोगुण: अप्रीत्यात्मक: अर्थात् दु:खस्वरूपं, तमोगुण: विषादात्मक: अर्थात् मोहस्वरूपम्। अत एव सुखं जडप्रकृते: वैशिष्ट्यम्। यस्मात् त्रिगुणात्मकप्रकृति: सुखदु:खमोहात्मिका। अपरपार्श्वे न्यायवैशेषिकदर्शनप्रकरणग्रन्थेषु रूपरसादिचतुर्विंशतिगुणेषु अन्यतमगुण: सुखम्। आचार्य: अन्नंभट्ट: तस्य तर्कसंग्रहग्रन्थे सुखस्वरूपम् उक्तवान् यत् सर्वेषामनुकूलतया वेदनीयं सुखम् इति। अर्थात् सकलप्राणीनां यत् स्वाभाविकाभिलाषस्य विषयरूपेण ज्ञायते तत् सुखम्। सुखमिदं आत्मन: विशेषगुण:— बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणा:। एवञ्च तर्कभाषानामकग्रन्थे सुखप्रसङ्गे उक्तं— प्रीति: सुखम्। तच्च सर्वात्मनामनुकूलवेदनीयम्। उपर्युक्तालोचनात: वक्तुं शक्यते सांख्ययोगानुसारेण सुखं त्रिगुणात्मकप्रकृत्या सह सम्बन्धयुक्तम्। सुखादय: जडप्रकृते: विषया: यत् सृष्टे: अनन्तरं प्रकृति: पुरुषाय भोगरूपेण प्रददाति किञ्च पुरुष: सुखादिविषयाणां भोक्ता भवति। प्रकृतपक्षे सुखादिविषया: पुरुषस्य न भवन्ति, प्रकृतिपुरुषसंयोगवशात् पुरुषे आरोप्यते। किन्तु अपरपार्श्वे न्यायवैशेषिकदर्शने सुखं जीवात्मन: विशेषगुण: यत् गुणगुणीरूपसमवायसम्बन्धेन जीवात्मनि तिष्ठति। अत एव सांख्ययोगन्यायवैशेषिकदर्शनदृष्ट्या सुखविषयक: या अवधारणा तस्य तुलनात्मकं विश्लेषणं मम निबन्धस्य प्रतिपाद्यविषय:। Keywords: सुखं, गुण:, प्रकृति:, आत्मा, सांख्यम्।