माघकाव्यस्य काव्यदोषसमीक्षणम्
Māghakāvyasya kāvyadoṣasamīkṣaṇam

Author(s): Dr. Suman Banerjee
Guest Faculty, Dept. of Sāhitya
Sanskrit College & University
College Street, West Bengal, India
Email: sumanbanerjee7797@gmail.com
Page no: 97-114

Abstract: संस्कृतसाहित्ये बृहत्रय्या अन्यतमं काव्यं शिशुपालवधं माघस्य एका अमरा कृतिः। अलङ्कारशास्त्रदृष्ट्येदं महाकाव्यपर्यायभुक्तम्। काव्यमिदं युगे युगे सहृदयानां चित्ते सन्तोषं जनयति। अमितकाव्यगुणमण्डितस्यास्य काव्यस्य दोषसमीक्षा शोधपत्रेऽस्मिन् समुपस्थापितास्माभिः। महाकाव्येऽस्मिन् पद-पदांश-वाक्यार्थ-रसगताः सर्वे दोषाः समुपलभ्यन्ते। यथा पदगतो दुःश्रवत्वादिदोषः, पदांशगतो नेयार्थत्वादिदोषः, वाक्यगतो पतत्प्रकर्षत्वादिदोषः, अर्थगतः अपुष्टत्वादिदोषः, तथा रसस्य स्वशब्दोक्तिदोषः च प्रभृतयः प्राप्ता अस्माभिः। समीक्षायां तत्र वाक्यगता दोषा हि सर्वाधिकतया समुपलब्धाः। तेषां पद-वाक्यादिगतानां सर्वेषां दोषाणां विवेको यथामति यथोपपत्ति ललितभारत्या अस्मिन् लघुशोधपत्रे समुपस्थापिताः। 

Keywords: रसः, दोषः, मुख्यार्थः, प्रतिप्रसवः, अनौचित्यम्, वाक्यदोषः, अलङ्कारशास्त्रम् ।

Scroll to Top