योगवेदान्तदर्शनदृष्ट्या मनसः स्वरूपम्
Yogavedāntadarśanadṛṣṭyā manasaḥ svarūpam

Author(s): Sreeta Dey
Research Scholar, Dept. of Sanskrit
Tripura University, Tripura, India
Email: sreeta.net@gmail.com
Page no: 130-133

Abstract: भारतीयदर्शनं आस्तिकनास्तिकाभ्यां द्विधा विभक्तम्। आस्तिकदर्शनानि न्याय-वैशेषिक-सांख्य-योग-पूर्वमीमांसा-उत्तरमीमांसादर्शनानि षड्संख्यकानि प्रथितानि। नास्तिकदर्शनानि चार्वाक-जैन-बौद्धाख्यानि त्रीणि सन्ति। एषु आस्तिकदर्शनेषु योगदर्शनं वेदान्तदर्शनञ्च अन्यतमे विश्रुते च स्तः। अस्मिन् दर्शनद्वये मनसः महत्त्वं विशेषतया परिलक्ष्यते। योगदर्शने मनः चित्तत्वेन पर्यावसितम्। तत्र चित्तस्य समाधिरेव योगः प्रोक्तः। योगदार्शनिकानां नये चित्तस्य किं स्वरूपमिति प्रपञ्चनमेव अस्य शोधपत्रस्य एकदेशी विस्तारः। वेदान्तः उत्तरमीमांसादर्शनस्य पर्यायः। वेदस्य अन्तः इत्यर्थे वेदान्तः। अत्र अन्तशब्दः उत्कृष्टार्थकः। वैदान्तिकानां अन्तःकरणे एव मनसः अन्तर्भावः। एतेषां नये अन्तःकरणानि त्रीणि– महत् अहङ्कारः मनश्चेति। एतेषां स्वरूपम् उक्त्वा मनसः विचारोऽपि अस्मिन् शोधप्रबन्धे प्रदास्यते। तत्र वेदान्तस्य प्रस्थानत्रयस्य प्रमाणवचनमपि उल्लिखिष्यते। इत्थं योगदर्शनमते वेदान्तदर्शनमते च मनसः स्वरूपं शोधप्रबन्धे अस्मिन् समासेन प्रतिपादितं भविष्यति।

Keywords: भारतीयदर्शनम्, योगदर्शनम्, वेदान्तदर्शनम्, चित्तम्, मनः, अन्तःकरणम्।

Scroll to Top