By prakashanjayanti@gmail.com / January 10, 2026 सङ्कल्पसूर्योदये प्रतिभासमानं दार्शनिकतत्त्वम्Saṅkalpasūryodaye pratibhāsamānaṃ dārśanikatattvamAuthor(s): Sourav GoswamiState Aided College Teacher-IDept. of Sanskrit, Kharagpur CollegeKharagpur, West Bengal, IndiaPh.D. Scholar of Ranchi UniversityEmail: srvgoswami857@gmail.comPage no: 134-137Abstract: भारतीयसारस्वतसाधनायां दार्शनिकज्ञानधारया विशिष्टमेकं स्थानं विद्यत इति सुविदितमेव समेषां विपश्चिताम्। विविधदिग्गामिन्याः संस्कृतसाहित्यधारायाः दृश्यकाव्यविभागे भारतीयदार्शनिकचिन्तायाः प्रतिविम्बनं सुतरां समापतितमिति परिदृश्यते। एकादशशतकादारभ्य संस्कृतनाट्यसाहित्ये रूपकनाट्यसोद्भावो लक्ष्यते। प्रतीकनाटकेषु तानि नाटकानि अन्तर्भवति येषु अमूर्ताणां तत्त्वानां मूर्त्तरूपेण कल्पना क्रियते। चतुर्दशशताब्द्यां वेदान्तदेशिकेन दशमाङ्कविशिष्टम् ‘संकल्पसूर्योदयम्’ नाटकस्य प्रचारः दृश्यते। अस्मिन्नाटके वेदान्तदेशिकः प्रबोधचन्द्रोदयमनुसृत्य विशिष्टाद्वैतं प्रतिपादयितुं ब्रह्मसूत्राध्यायं रचितवान्। सांख्य-योग-मीमांसा-पाशुपत-बौद्ध-जैनादिदर्शनानां मतखण्डनं, दृढचेतसा समाधियोगाश्रयः, कामादिरिपूणां चित्ताद् विताडणम्, दम्भमोहादीनां तिरस्कारः, तीर्थानां दोषाद्भावनम्, हृदयगुहायां समाधिमग्नस्य जीवस्य मोक्षप्राप्तिः —इत्येवं प्रकारेण नाट्यवस्तु संस्थाप्यते।Keywords: सङ्कल्पसूर्योदयम्, दार्शनिकतत्त्वम्, प्रबोधचन्द्रोदयम्, मोक्षः, वेदान्तदेशिकः।