By prakashanjayanti@gmail.com / January 10, 2026 नाट्योत्पत्तौ वेदस्य भूमिकाNāṭyotpattau vedasya bhūmikāAuthor(s): Nayanmani RoyPh.D Scholar, Burdwan University, Burdwan, West Bengal, IndiaEmail: nayanmani94roy@gmail.comPage no: 146-151Abstract: नाटकमेव मनोरञ्जनस्य सर्वोत्कृष्टसाधनम्। नाट्यस्य मनोरञ्जकतासम्पर्के नाट्यशास्त्रस्य प्रथमाध्याये उल्लिख्यते विनोदजननं लोके नाट्यमेतद् भविष्यति। सर्वकाले सर्वस्थाने नाटकमेव सर्वलोकप्रियरूपेण विराजते। नाट्यगृहे तथा अधुना चलचित्रगृहे दर्शकाः दृश्यन्ते। मालविकाग्निमित्रम् नाटकस्य प्रथमाङ्के चतुर्थश्लोके कालिदासेन उक्तम् – “देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तिकं द्विधा। त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य वहुधाप्येकं समाराधनम्”॥नाटकस्य उत्पत्तिविषये अभिनयदर्पणे नन्दिकेश्वरमहोदयेन उक्तं – “नाट्यवेदं ददौ पूर्व्वं भरताय चतुर्म्मुखः। ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्व्वणः क्रमात्। पाठ्यं चाभिनयं गीतं रसान् संगृह्य पद्मजः”॥(2,7,8)नाटकस्य मूलबीजं प्राप्यते वेदे। शोधप्रबन्धेऽस्मिन् नाटकस्य उत्पत्तिविषये स्वल्पविस्तारेण आलोचना क्रियते। Keywords: नाट्यवेदः, पञ्चमवेदः, अनुकरणम्, दासीकन्या, महाव्रतयागः।