कर्मपदार्थनिरूपणावसरे शाब्दिकपक्षे शाब्दबोधदिशा गौरवप्रदर्शनपुरःसरं प्राचीननव्यनैयायिकमतविवेचनम्
Karmapadārthanirūpaṇāvasare śābdikapakṣe śābdabodhadiśā gauravapradarśanapuraḥsaraṃ prācīnanavyanaiyāyikamatavivecanam

Author(s): Parthasarathi Ghosh
Ph.D. Scholar
Cooch Behar Panchanan Barma University
Cooch Behar, West Bengal, India
E-mail: parth123aghosh@gmail.com
Page no: 152-156

Abstract: षट्सु कारकेषु कर्म अन्यतमम्। विषयेऽस्मिन् चर्चा न केवलं शाब्दिकनिकाये अपि तु विविधेषु शास्त्रेषु दरीदृश्यते। तेषु न्यायदर्शने अस्य आलोचनं किञ्चित् विशिष्टं वैशिष्ट्यमादधाति। वस्तुतः नैयायिकसम्प्रदायः प्राचीननव्यभेदेन द्वैविध्यो भवति। किञ्च तत्र कर्मपदार्थनिरूपणावसरे यथा सादृश्यं परिलक्ष्यते तथैव वैसादृश्यमपि दरीदृश्यते। अतः शोधाभिसन्दर्भेऽस्मिन् कर्मणः स्वरूपं प्रतिपादयन् शाब्दिकमतानुसारं कर्मपदार्थं निरूप्य पुनश्च तस्मिन्नेव पक्षे गौरवदोषं सम्प्रदर्श्य प्राचीननैयायिकानां नये किं तावत् कर्मपदार्थः, किं च नव्यनैयायिकानां मतमिति विषये यथासम्प्रदायम् आलोचनं प्रतिपिपादयिषुरस्मि। अतः षट् कारकेषु अन्यतमं कर्म। कर्मरूपं यत्पदं, तस्यार्थः कर्मपदार्थः। तत्पदार्थस्य निरूपणं कर्मपदार्थनिरूपणम्, कर्मपदार्थनिरूपणस्य अवसरे कर्मपदार्थनिरूपणावसरे। शब्दशास्त्रमाश्रित्य येषां विचारप्रवाहः, ते हि शाब्दिकाः, तेषां पक्षे इति शाब्दिकपक्षे। सिद्धान्तोपस्थापनकाले समागतेषु दोषेष्वन्यतमो हि गौरवदोषः। अतः कर्मपदार्थनिरूपणकाले शाब्दिकपक्षे समागतस्य गौरवदोषस्य प्रदर्शनपुरःसरं समुपस्थापनपुरःसरं प्राचीननैयायिकानां मते तथा नव्यनैयायिकानां मते किं तावत् कर्मपदार्थः इत्येतत्सर्वमेवास्मिन् शोधाभिसन्दर्भे व्याख्यातुमुत्सहे इति। 

Keywords: कर्म, द्वितीया, धात्वर्थः।

Scroll to Top