वैदिकयज्ञस्य समीक्षात्मकम् अध्ययनम्
Vaidikayajñasya samīkṣātmakam adhyayanam

Author(s): Sourav Seth
Ex-Student, Dept. of Sanskrit
Rabindra Bharati University
Kolkata, West Bengal, India
E-mail: sseth5671@gmail.com
Page no: 157-165

Abstract: वैदिकयुगस्य यागस्य विविधाः प्रकाराः सन्ति। यागमधिकृत्य अनेकाः ग्रन्थाः समुपलभ्यन्ते। सर्वेषु ग्रन्थेषु यागस्य स्वरूपं प्राप्यते। ऋषयः वैदिकमन्त्रान् साक्षात् दृष्टवन्तः। उच्यते— ‘ऋषयः मन्त्रद्रष्टारः, न तु स्रष्टा’। निरुक्तकारेण यास्काचार्येण उक्तम्— ‘ऋषिर्दर्शनात्’ इति। अनेन शोधपत्रेण वैदिकयुगस्य यागस्य स्वरूपं कर्मानुष्ठानं च मया संक्षेपेण प्रदीयते। अस्मिन् शोधपत्रे पूर्वाचार्येण मतमनुसृत्य प्रकृततया प्रकृतियागस्य पञ्चभेदाः प्रदर्शयन्ते। अत्र होमः, इष्टिः, पशुः, सोमः, सत्रश्च एते प्रकृतेः यागस्य मूलस्वरूपं यागपद्धतिं कर्मानुष्ठानञ्च सरलतया मया उपस्थाप्यते। अस्य शोधपत्रस्य लेखने मम आचार्यः श्रीमन् सुमन्तमहोदयः विशेषसाहाय्यं कृतवान्। आचार्यस्य कृतेऽहं साधुवादं धन्यवादं च ज्ञापयामि।

Keywords: अग्न्याधानः, आहूतिः, आज्यम्, दीक्षणियेष्टिः, सोमाभिषवम्, अग्निहोत्रम्, अग्निष्टोमः।
Scroll to Top